SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ १८२ वैयाकरणभूषणे मूलं तु न्यायसुधायामामिक्षाधिकरणे तथाभिधानादुद्देश्यश्चतुध्यर्थ इति मतेन । ननु ' तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः । देवप्रसङ्गतिस्तत्र दुर्बलं तु परं पर' मिति मीमांसकोक्तं तद्धिताच्चतुर्थी दौर्बल्यं कथमिति चेत् । इत्थम् । चतुर्थ्यां वाक्यादेवतात्वसम्बन्धलाभस्तद्धिते समानपदोपादानश्रुत्येति श्रुतिवाक्यबलाबलाधीनं तदिति ध्येयम् । नन्वग्न्यादेः प्रत्ययार्थदेवतायां नाभेदेनाप्यन्वय सम्भवः । पदार्थैकदेशत्वादन्वयस्यैवाभावादित्यत आह । देवतायामिति । तथा च पदार्थैकदेशतैव नास्तीति भावः ॥ ५३ ॥ ; नम्बग्ने पादावग्नेर्देवस्य प्रकृत्या लाभान्न शक्तिः कल्प्या । न च देवतात्वरूपेणोपस्थितये सा कल्प्यते । तेन रूपेणोपस्थितेलक्षणयाप्युपपत्तेः । उपसर्गीणां द्योतकत्वमते प्रजयतीत्यत्र प्रकृष्टजयमतीतिवदित्याभिप्रेत्याह ॥ प्रदेयएव वा शक्तिः प्रकृतत्वस्तु लक्षणा । देवतायां निरूढेति सर्वे पक्षा अमी स्थिताः ५४ ऐन्द्रमित्यनेन्द्र विशिष्टं प्रतीयते । तत्रेन्द्रो देवता प्रकृत्यर्थः देय द्रव्यं प्रत्ययार्थस्तयोः सम्बन्धः संसर्गः । न चानन्यलभ्यः शब्दार्थ इति न संसर्गदेवते तदर्थः । न च द्रव्यमपि दध्यादिपदलभ्यं न शक्यम् । तदश्रवणेप्यैन्द्रपदमात्राद्देयमालप्रतीतेः । ऐन्द्रं दधीति सामानाधिकरण्याच्च, सास्यदेवतेत्यनुशासनाच्च । मीमांसकानां पुनः कर्तृकर्मणोराख्यातावाच्यत्वं स्वीकुर्वतां तुल्ययुक्तचा ऽत्रापि द्रव्यवाच्यत्वं न सिध्योदति प्रपञ्चितं प्रागिति ध्येयम् । देवतायामिति । देवतात्वरूपेणेत्यर्थः । निरूढे - ति । अनादिप्रयोगावच्छिन्नलक्षणाया एव तत्त्वादिति भावः ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy