SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ देवताद्यर्थकतद्धितार्थनिर्णयः । २८१ पूर्वत्र लक्षणे जातिगुणद्रव्यलक्षणार्थाभिधायिभ्यो गवादिभ्यः शब्दस्वरूपसामान्यादिषु प्रत्ययः । इह तु शब्दाभिधायिभ्यः पूर्वोक्तेष्वेवार्थेष्विति प्रकृत्यर्थभेदेषि प्रधानप्रत्ययार्थाभेदापेक्षो विकल्प इति कैयटोक्तिः परास्ता । तस्मात्संज्ञाशब्देष्विव शब्द एवावच्छेदकस्त्वप्रत्ययेन कुत्वमित्यवाभिधीयतइति प्रतिभातीति दिक् । पक्षद्वयोपि तैः प्रकृतिभूतैर्जन्यो यो बोधस्तत्र यः प्र. कारस्तत्र त्वादयो जायन्ते । कीडशे प्रकारे । भावसंज्ञिते । तस्य भाव इति सूत्रे शब्दस्य प्रवृत्तिनिमित्तं भाव इति प्रसिद्धौ च भावशब्दवाच्ये इत्यर्थः॥ इति वैयाकरणभूषणे भावप्रत्ययार्थनिर्णयः समाप्तः। - सास्य देवतेत्यत्र देवताविशिष्टं देयं प्रत्ययार्थः । ऐंद्रं वैश्वदेवीत्यादौ इन्द्रादेर्देवतात्वोपस्थापकाभावात्तेन रूपेणोपस्थितये पृथक् शक्तिकल्पनावश्यकत्वात् । अत एवा मिक्षां देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसानिध्यात्तस्यैव विषयार्पण' मिति । 'केवलादेवतावाची तद्धितोग्नेः समुच्चरन् । नान्ययुक्ता. ग्निदेवत्यं प्रतिपादयितुं क्षम' इति च मीमांसकैरप्युक्तमित्याशयेनाह ॥ प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् ॥ ५२ ॥ अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः। देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ॥५३॥ एकदेशे देवतारूपे तच्चाभेदेनेत्याह । अभेदश्चेति । व. स्तुतस्तु चतुर्थ्यादौ प्रकृत्यर्थस्य तथैव लब्धस्य चतुर्थ्या देवतात्वमात्रमुच्यतइति तद्वत्मकृत्युपातेंन्द्रादेर्दैवतारूपत्वमेव इहाथैः ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy