________________
२८०
वैयाकरणभूषणे शूद्रस्य हननाघोषः । अस्तु चैका सा तथापि नानार्थोच्छेदः सर्वनामकक्षतया सर्वसमाधेयः । तथाहि । अनुभवानुरोधात्सर्वनाम्नां विशिष्योपस्थापकत्वमिति सर्वसिद्धम् । तच्च यदि बुद्धिविषयत्वरूपेणोपस्थापितघटत्वपटत्वादिशालिषु बुद्धिविषयवति शक्तं तत्पदमित्येव शक्तिग्रहो बुद्धिविषयत्वं तूपस्थितावनुग. मकमात्रं न तु शक्यमिति न तच्छान्दबोधे भासते किं तु घटत्वादिकमेवेत्युच्यते तदात्रापि बुद्धिविषयत्वरूपेणोपस्थितपाशत्वविभी. तकत्वादिशालिषु बुदिविषयवति शक्तमक्षपदमिति शक्तिग्रहस्य सुवचत्वात् । यदि वा बुद्धिविषये तदादिपदं शक्तमित्यतिदेशवाक्यार्थज्ञानसहकृतेन मनसा प्रकरणादिवशात्तदादिशब्दश्रवणान न्तरं विशेषरूपेणोपस्थिते शक्तिग्रह इत्युच्यते तदा ऽत्रापि बु. द्धिविषये ऽक्षादिपदं शक्तमित्याधतिदेशवाक्यार्थज्ञानसहकृतेन मनसा प्रकरणादिवशादक्षपदश्रवणानन्तरं विशेषरूपेण उपस्थिते शक्तिग्रह इति तुल्यमेवेति । वस्तुतः शक्यतावच्छेदकनानात्वे. न नानार्थतेति सर्वसिद्धत्वादत्र जातेरनेकस्या अवच्छेदकत्वा. भानार्थत्वं दुष्पारहरम् । ब्राह्मणं न इन्यादित्यत्रापि जातिविशेषावच्छिन्नहननं पापजनकमिति स्वीकारान दोष इति ध्येय. म् । तस्माच्छन्दो ऽवच्छेदकः स एव त्वप्रत्ययवाच्यः । एतच्च वृद्धिरादैजित्यत्र शब्दकौस्तुभे स्पष्टम् । उक्तं च हरिणा । सामान्यान्यभिधीयन्ते सत्ता वा तैर्विशोषिता । संज्ञाशब्दस्वरूपं वा प्रत्ययैस्त्वतलादिभिरिति । एतदेवाभिप्रेत्य यद्वति वार्तिकं भाष्यं च सङ्गच्छते । अन्यथा सूत्रोक्तभावशब्दार्थविचारे पक्षद्वयेपि तदैक्यादसङ्गत्यापत्तेः । अत एनाये धर्मविशेषः प्रत्ययार्थो द्वितीये बोधप्रकार इति मनोरमायां पक्षद्वयोपन्यासः सङ्गच्छते । अन्यथा धर्मविशेषस्य पक्षद्वयेपि समानत्वादसङ्गत्यापत्तेः । एतेन