________________
भावप्रत्ययार्यनिर्णयः ।
२७९
मृदब्रवीत् आपोब्रुवन्नित्यादौ देवतायां मृदादिशब्दानां शक्तिग्रहासम्भवात्तत्परत्वे ऽप्रामाण्यमाशङ्कय पाशहस्तादिपदादुपस्थिते शक्तिग्रहः । न च तस्यापि शक्तिग्रहासम्भवादनुपपत्तिः । यौगिकेषु समुदायशक्तिग्रहानपेक्षणात् । अवयवानां च पाशादिपदानां लोके शक्तिग्रहात् । एवमदृष्टादिपदेष्वप्यूह्यमित्यादिमाध्वीया न्यायसुधा परास्ता । जातिविशेषरूपेण पाशहस्तादिपदादुपस्थित्यसम्भवातेन रूपेण शक्त्यग्रहात् । अन्यथा प्रत्यक्षेणोपस्थिते वरुणे वरुणादिपदानां शक्तिग्रहवतामिव त्वदुक्तरीत्या तद्भवतामपि पाशाद्यदर्शनेपि व्यक्तिमात्रदर्शनाद्वरुणोपमित्यादिप्रत्ययापत्तेः । अस्माकं पदरूपेणोपस्थितौ रामादिपदं कचिच्छक्तं साधुशब्दत्वात् घटपदादिवत्, हकारादयो वर्णाः क चिच्छक्ताः वर्णत्वात् अकारोकारादिवदिति शक्तिग्रहो - स्त्येव । अत एव रामादिपदवाच्यः कश्चित्पदार्थ इत्येव बोधः । जवगडदशित्युच्चारयेत्यादौ च घटो नित्य इत्यादिवयोग्यतावशा द्विशेषणांशान्वय इत्युक्तम् । सम्बन्धितावच्छेदकरूपेणोपस्थितसम्बन्धिन एव सम्बन्ध्यन्तरस्मारकत्वान्न प्रत्यक्षेणोपस्थितवरुणेन पदस्मरणं, तत्र पदस्यैवावच्छेदेकत्वात् । तस्मादनुभ वानुरोधाच्छन्द एवावच्छेदकः । अत एव विष्णुर्नारायणः कृष्ण इत्यत्र सामानाधिकरण्यं सङ्गच्छते । अन्यथा घटो घट इत्यत्रेव तन्न स्यात् । तस्मात्पदप्रकारकबोधं एव सर्वसम्मत इति । 1 तथा जातिविशेषोप्यवच्छेदकः । शक्तिग्रहवैलक्षण्याच्च बोधवैलक्षण्यम् । अत एवेक्ष्वाकादिपदेषु तत्तत्पिण्डदर्शनाच्छाक्तिग्रहशाकिनां तद्वृत्तिजातिमकारक एव बोधः । अस्मदादीनां च नेति सङ्गच्छते । स च शब्दः शक्तिसम्बन्धेनैवावच्छेदकः शक्तिश्च शब्देक्येपि नानैवेति न नानार्थोच्छेदो न वा ब्राह्मणादिनाम्नः