SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७६ वैयाकरणभूषणे च यद्यपि परेषां घटेतरावृत्तित्वे सति सकळघटसमवेतत्वरूपं त. थाप्यस्मन्मते अविद्या आविद्यको धर्मविशेषो ब्रह्मसत्तैव वा जातिरिति स्वीकारादखण्डमेव वाच्यम् । स्ववृत्तित्वादिसम्बन्धेन व्यक्तिरेव वा प्रकारः । यद्यप्यत्रापि जातेरेकत्वे स्ववृत्तित्वस. त्वात् । घटत्वमित्यत्र घटस्यापि प्रकारतापत्तिस्तथापि घटादिरेव च तत्रोपस्थित इति स एव प्रकारः । पटादेः शब्दादनुपस्थितौ शाब्दबोधे भानासम्भवात् । अस्तु वा तत्तत्मकतिसमभिव्याहारस्य तादृशबोधत्वं कार्यतावच्छेदकमतो न दोषः । एवञ्च " सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थ च धात्वर्थ च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादय" इति वाक्यपदीयं सङ्गच्छतइति दिक् । कैयटस्तु गवादयो यदि जातिमात्रवाचिनस्तदा तेभ्यः शब्दस्वरूपे प्रत्ययः । तथाहि । अर्थे जातो शब्दस्वरूपमध्यस्यते यो गोशन्दः स एवार्थ इति । ततः शब्दस्वरूपमेव प्रवृत्तिनिमित्तं ना. न्यदित्याह । के चित्तु धर्ममात्रं धर्मत्वेनैव शक्यं भावप्रत्ययस्य न तु तत्तद्रूपेण, नानार्थतापत्तेः । ननु गुरुत्वं घटत्वमित्यादौ गुरुत्वत्वादिना प्रतीतिः सर्वसिद्धा न स्यादित्यत आह । प्रयो. गोपाधीति । प्रयोगे उपाधिः नियमेन भासते संस्कारमात्राम तु तत्रापि शक्तिः । तं प्रकारतया आश्रित्यानुपपन्त्यभाव इत्य. थः । न चैवं धर्मत्वस्य शक्यत्वे न मानमिति वाच्यम् । शक्तेरवच्छेद्यत्वनियमाते । अन्यथा मास्तु तदवच्छेदकमत एक प. ङ्कजपदे पद्मत्वं प्रयोगोपाधिरिति परे मन्यन्तइति व्याचक्षते । तच्चिन्त्यम् । एवं हि घटत्वमित्यादौ धर्मत्वेनैव बोधे प्रतीतिवैचिव्यं न स्यात् । संस्कारवशाद्विशेषरूपभानमिति चे,तथासति
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy