SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ भावमत्ययार्थनिर्णयः । २७५ धर्ममात्रं वाच्यमिति यदा शब्दपरादमी ॥५१॥ जायन्ते तजन्यबोधप्रकारे भावसंज्ञिते ॥ प्रयोगे कर्तव्ये, प्रकृत्यर्थे त्वप्रत्ययप्रकृत्यर्थे, प्रकारतामापनमिति शेषः । तमुपाधिमाश्रित्य । शक्यतयोति शेषः । प्रकृतिजन्यबोधे प्रकारो भावप्रत्ययशक्य इत्यर्थः । ननु घटत्वमित्यादिपदजन्यबोधप्रकारो घटत्वत्वादिकमपि भावप्रत्ययोत्तरभावप्रत्ययस्य शक्यं स्यादित्यत्र इष्टापत्तिमाह । धर्ममात्रमिति । न च गौरवाल्लक्षणैव न तत्र शक्तिरिति वाच्यम् । शक्तावेव तदादरो न लक्षणायामित्यत्र विनिगमकाभावादिति भावः । तथा च तस्य भावस्त्वतलाविति मूत्रे भगवान् वार्तिककारः। यस्य गुणस्य भा. वाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति व्याख्यातं च कैयटेन । गुणशब्देन यावान् कश्चित्पराश्रयो भेदको जात्यादिः स सर्व इह गृह्यते । यस्यभावादित्येतावत्युच्यमाने पुत्रस्य भावात्पितरि पितृशब्दप्रयोगापितृत्वमिति पुत्रे भावप्रत्ययः स्यात् । पुत्रत्वमिति च पितरीति गुणग्रहणम् । भावाद्विद्यमानत्वादित्यर्थः । द्रव्यशब्देन विशेष्यभूतः सत्त्वभावापन्नोर्थ उच्यते तस्मिन् द्रव्ये शन्दनिवेशः शब्दस्य प्रवृत्तिर्यस्य गुणस्य भावात्स त्वतलाद्यभिधेय इत्यर्थः । तत्र रूपादयः गुणमात्रप्र. वृत्तयस्तेभ्यो गुणवृत्तिजात्यभिधायी प्रत्ययो रूपत्वमिति यथा । ये तु शुक्लादयो गुणिपरा अभेदोपचारादिना तेभ्यो गुणे प्रत्ययः । गुणपरेभ्यस्तु जातादेव । अणुमहद्दीर्घादयो ये नित्यं परिमाणिनि वर्तन्ते न तु परिमाणमात्रे तेभ्यो गुणे भावप्रत्ययः । पाचक इत्यत्र क्रियाविशेषणकबोधात्तदुत्तरभावप्रत्य. येन विशेष्यतया सैवाभिधीयते, घटत्वमित्यादौ जातिरिति यथानुभवं द्रष्टव्यम् । तत्र घटत्वत्वादिकं जाताववच्छेदकमुक्तं त.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy