SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७४ वैयाकरणभूषणे प्रवाचित्वमेव सम्बन्धस्य वाक्यार्थविधया विशेषणविशेष्यभा. वबोधोत्तरमर्थाद्वा प्रतीत्युपपत्तेः । अत एव पाचक इत्यादानपि न सोर्थः । उक्तं च । “पाकंतु पचिरेवाह कर्तारं प्रत्ययोप्यकः । पाकयुक्तः पुनः कर्ती वाच्यो नैकस्य कस्य चि"दिति । न चानन्तद्रव्येषु शक्तिग्रहासम्भवः । एकमुपलक्षणीकृत्य सम्भवात् । न चोपलक्षणीभूता दण्डादयोपि नाना । तद्वत्तिजात्यानुगमात् । न च तदपि दण्डत्वकुण्डलत्वरूपमनेकम् । प्रकृत्यर्थत्वेन तदनुगमादित्यरुणाधिकरणोक्तरीत्या द्रष्टव्यमित्याहुः । तदर्दजरतीयत्वा. दुपेक्ष्यमित्याह ॥ तत्रार्द्धजरतीयं स्याद्दर्शनान्तरगामिनाम् । सिद्धान्ते तु स्थितं पक्षद्वयं त्वादिषुतशृणु॥५०॥ - अत्र कदादौ । अयं भावः । दण्डीत्यादौ सम्बन्धावाच्यस्बे दण्डित्वमित्यत्रापि न स्यात् । प्रतीतेस्तथैवोपपत्तेः । न च त्वप्रत्ययवैयर्यभीत्या तत्कल्प्यते । घटत्वमित्यादौ क्लुप्तप्रकत्यर्थतावच्छेदकशक्तयैवोपपत्तेः । कत्तद्धितसमासभ्य इति वचनात्तथा कल्प्यतइत्यप्ययुक्तम् । तस्य हरिवचनत्वात् । अस्तु तर्वानुभवानुरोधाच्छक्तिकल्पनमिति चेन्न । शक्तयन्तरकल्पनामपेक्ष्येन्यादीनां क्लुप्तशक्तावेव धर्मिवत्सम्बन्धविषयत्वकल्पनयोपपत्तौ पृथक्शक्तिल्पनासम्भवात् । तथा च सति क्लप्तप्रकत्यर्थतावच्छेदकशक्त्यैव तदानसम्भवादेः प्राक् विवोचितत्वादिति दिक् ॥ ५० ॥ सिद्धान्तनिष्कर्षमाह ॥ प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम् ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy