________________
वैयाकरणभूषणे
निपातत्वं परेषां यत्तदस्माकमिति स्थितिः । व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ||१८||
૧૯૩
परेषां मते यदेव निपातत्वम् । असत्त्वार्थत्वे सति चादिगणपठितत्वं शक्तिसम्बन्धेन निपातपदवत्त्वमित्याद्युपाधिरूपं वा जातिर्वास्तु उभयथापि सामान्ये प्रमाणानां पक्षपातात्तदेव द्योतकतायाःशक्तताया वावच्छेदकं युक्तमित्यर्थः । व्यापकत्वात् । सामान्यत्वात् । शक्तताया इत्युपलक्षणं द्योतकताया इत्यपि द्रष्टव्यम् । एतेन चादयः सन्तु द्योतकाः उक्तयुक्तेः । अथशब्दस्तु वाचक एव । अन्यथा प्रकरणतुल्यतया मङ्गलानन्तरारम्भप्रश्नकार्येष्वथोsथेति कोशासङ्गतिः स्यात् । अथशब्दानुशासनमित्यत्र वाचकपदासमभिव्याहाराच्च । द्योतकानां वाचकपदसमभिव्या होरनियमात् । तस्मादथशब्दः प्रस्तावद्योतक इति चिन्त्यमित्यपास्तम् । चकारादावपि समुच्चयादेः कोशाद्युक्तस्य चार्थेद्वन्द्व इति सूत्राच्च वाच्यत्वापत्तेरर्द्धजरतीयतादवस्थ्यात् । अथशब्दानुशासनमित्यत्राप्यनुशासनशब्द एव तद्वाचकः । न च श्रवणादेरपि द्योतनापत्तिः । घटश्चेत्यत्राप्यापत्तेरित्यास्तामतिक्षुद्रधन्धनयेति दिकू ।। ४८ ।
इति वैयाकरणभूषणे निपातानां द्योतकत्ववा चकत्वनिर्णयः समाप्तः ॥
भावप्रत्ययार्थं निरूपपति ॥
कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम् । त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥ ४९ ॥