SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे तिहेतुरित्यपि निपातातिरिक्तविषयं वाच्यमतो नान्यपि दोषाः । वस्तुतो नेत्येवोक्ते अभावशाब्दस्य सर्वसिद्धत्वान्न तत्र पदान्तरसमाभिव्याहाराभागत् द्योतकत्वसम्भवः । अत एव नसूत्रे महाभाष्येपि ननेत्यत्र अभावो नास्तीत्यर्थदर्शनं कृतं सङ्गच्छते । म च क्रियायोगं विना ऽसमस्तनमो ऽसाधुत्वादिदमनुपपनामिति वाच्यम् । गम्यमानाया अपि क्रियायाः कस्मात्त्वं नद्या इत्यत्रेव निमित्तत्वमालम्ब्य नबसम्भवात् । अस्तु वा प्रकृष्टो धर्मी प्राद्य. थः तथा च स्तोकं पचतीति वदभेदेनैवान्वयान व्युत्पत्तिविरो. धः । ननु निपातानां वाचकत्वे केवलानामपि प्रयोगः स्यादिति चेन्न । केषां चित्तेपारधातोरिति नियमितत्वात् । केषां चि. पत्रप्रभृतीनां तथात्वस्येष्टत्वात् । अन्येषां वाचकत्वेपि केवलं प्रत्ययप्रकृत्योरप्रयोगवदुपपत्तेः । उक्तं हि वाक्यपदीये । 'प्र. त्ययो वाचकत्वपि केवलो न प्रयुज्यते । समुच्चयाभिधानपि व्यतिरको न विद्यत, इति ॥ यद्यपि प्रत्ययवदेषां परत्वं न स्मयते तथापि तैर्बोध्यप्रकर्षादेविना सम्बन्धिनमनन्वयात्केक्लमयोगासम्भवः । समुच्चिताभिधायकत्वेपि विशेषतस्तयोरुपस्थिति विना प्रतीतेरपर्यवसानाभित्यपरतन्त्रतैवेति न प्रयोगः । उक्तं हि वाक्यपदीये । "समुचिताभिधानेपि विशिष्टार्थाभिः धायिनाम् । गुणैः पदानां सम्बन्ध परतन्त्रास्तु चादय" इति ॥ त. स्मान्निपातानां वाचकत्वे न दोषः । अत एवं समुच्चयाधिकरणे मीसांसकैरुक्तम् । केवलक्षशब्दात् समुच्चयाबोधाच्चकार एव तद्वाचको न द्योतकः । किं न द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या चकारस्य च द्योतकत्वशक्तिः कल्पनीयति गौरवं स्यादिति । अत एव मीमांसाद्वयपि नः पर्युदासे लक्षणेत्यादयो व्यवहाराः सङ्गच्छन्ते, साच्छन्ते च तत्रतत्र प्राचीन
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy