SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६९ निपातार्थनिर्णयः। णिक रूपे इत्यादौ तत्राननुभवापत्तिः । किं चानुमितिशाब्दयोरनुभवामीति प्रतीत्यभावादनुभवत्वं प्रत्यक्षत्वमेव । तथा च शान्दवोधाजनकत्वं पर्यवसितम् । तदपि साक्षात्पदानां तज्ज्ञानस्य वा शान्दबोधाजनकत्वात्पदार्थस्मरणद्वारकमपि तमा. स्तीति वाच्यम् । तच्चायुक्तम् । लक्षणाज्ञानजन्यपदार्थोपस्थिते शाब्दबोधजनकत्वेन तद्वारकस्य तस्य दुष्परिहारात् । अन्यथा लक्षणाकल्पनमेवोच्छिद्यतेति दिक । अपि च धातोर्लक्षणयाप्युपपत्तो पातानामवाचकत्वे घटादिपदस्थचरमवर्णस्यैकाक्षरनिघण्टुवशात्तत्तदर्थकस्य घटत्वादिविशिष्टे लक्षणया बोधोपपत्तौ घ. टादिपदानामप्यवाचकत्वप्रसङ्गः । न चावयवशक्तिमविदुषोपि समुदायशक्तिज्ञानात्तथा बोधात्तेषां शक्तिकल्पनम् । धातोः श. क्तिमविदुषोपि उपसर्गस्य तद्रहवतो बोधात्तथात्वस्य तुल्यत्वात् । न च प्रकारतासम्बन्धेनाख्यातार्थविशेष्यकबोधं प्रति धातुज. न्योपस्थितिहेतुरित्यादिकार्यकरणभावरूपाकांक्षाविरहादुपसर्गस्य शक्तिग्रहेपि न बोध इति वाच्यम् । तादृशकार्यकारणभावग्रहशालिपुरुषीयचान्दे एव तस्य हेतुत्वादिह चान्यस्य तत्सम्भवात् । किं चाख्यातार्थविशेष्यकतादृशबोधं प्रति निपातजन्याप्युः पस्थितिः कारणं कल्प्यतां व्यतिसे इत्यनुरोधात् । अन्वयव्यतिरेकाभ्यां तेषां घटादिपदवच्छक्तिसिद्धौ तथाकल्पनस्य यु. तत्वाच्च । एतेन प्रतिष्ठते इत्यत्र गमनत्वरूपेष प्रतीतेर्धातोरेव लक्षणा प्रशब्दस्य तदर्थत्वे च तत्राख्यातार्यान्वयो न स्यादित्यपास्तम् । तस्मादन्वयव्यतिरेकाभ्यां प्रकर्षादिस्तेषां वाच्य एव । एवं चप्रकारतासम्बन्धेन धात्वविशेष्यकबोधं प्रति कारकविभक्तिवनिपातजन्याप्युपस्थितिहेतुर्वाच्या तथा च न प्रथमः पूर्वो. क्तोत्र दोषः। एवं नामार्थयार्भेदेनान्वयबोधे षष्ठयादिजन्योपस्थि
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy