________________
.२६८
वैयाकरणभूषणे
नाय धातोर्वा सहकारी प्रयुज्यते ' इतीति चेन्न । निपातधात्वादीनामानुपूर्व्याः शक्ततावच्छेदकत्वे गौरवात् । विशिष्टस्य शक्त्यन्तरकल्पनावश्यकत्वे विशिष्टस्य तत्स्वीकारमपेक्ष्य शुद्धनिपाते एव तत्स्वीकारौचित्याच्च । जयादिमात्रवाचकस्य प्रकर्षादि विशिष्टे लक्षणयोपपत्तौ गौरवग्रस्तोक्तकल्पनायोगाच्च । अस्तु ता लक्षणायां तात्पर्यग्राहकत्वमेव द्योतकत्त्वमिति द्वितीयः पक्ष इति चेन्न । तथा सति सुप्तिङामपि द्योतकतापत्तेः । धात्वादेः कर्तृकर्मादिविशिष्ट लक्षणायां तिद्वितीयादेस्तात्पर्यग्राहकत्वसम्भवात् । न चैवं घटादिपदानामेव कर्मत्वादिविशिष्टार्थकत्वे नामार्थधात्वर्थयोः साक्षादन्वयापत्तौ अभेदातिरिक्तसम्बन्धेन नामार्थप्रकार शाब्दबोधे विभक्तिजन्योपस्थितेः कारणत्वविकोपापत्तौ घटः पश्यतीत्यत्र कर्मत्वसम्बन्धेनान्वयाच्छाब्दबोधापत्तिः । घटादिपदानां घटकर्मके लक्षणया स्तोकं पचतीत्यत्रैवाभेदबोधस्यैव सम्भवात् । भेदसम्बन्धेन बोधो ऽनुभूयतइति चेन्न । राजपुरुष इत्यत्रापि तथानुभवाच्छक्त्यापत्तेः । नामार्थनिर्णयकथितरीत्याप्युपपत्तेश्च । न चैवं गङ्गायां द्विरेफ इत्यत्र तीरगतभूमराननुभवापत्तिः । विभक्तेरनर्थकत्वात् प्रकृतेश्च लाक्षणिकत्वेनाननुभावकत्वादिति वाच्यम् । वृत्तिमत्वेनैवानुभावक`त्वात् । यत्तु लाघवाच्छक्तत्वेनैवानुभावकत्वमिति । तन्न । लाक्षणिकस्यापि शक्तत्वात् । तत्र शक्तं तमनुभावयतीति नियम इति चे, तर्हि गङ्गायां घोष इत्यत्र तीरानुभवोन स्यादेव । स्वशक्तयान्वयबोधकमेवानुभावकं गङ्गायां घोष इत्यत्र गङ्गापदस्य तथात्वेपि सप्तम्यादेस्तथात्वात्तदेव तीरानुभावकं भविष्यतीति चेन्न । अपभ्रंशादननुभवापत्तेः । गौरवाच्च । बोधकत्वेनैवानुभावकतायामतिलाघवाच्चेति । अपि च यत्र पदद्वयमपि लाक्ष
·