SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २५८ वैयाकरणभूषणे _इति वैयाकगरभूषणे नअर्थनिर्णयः ॥ प्रादयो द्योतकाश्चादयस्तु वाचका इति न्यायमते स्थितं वै. षम्यमयुक्तं युक्तिसाम्यादिति ध्वनयन् निपातानां द्योतकत्वं समर्थयते ॥ योतकाः प्रादयो येन निपाताश्चादयस्तथा । उपास्येते हारहरौ लकारो दृश्यते यथा ॥ ४२ ॥ परेण उपसर्गाणां द्योतकत्वस्वीकारात्तत्सम्मतं दृष्टान्तमाह। तयेति । अयं भावः। प्रजयतीत्यत्र प्रकृष्टो जयः प्रतीयते । सच नोपसर्गवाच्यः। एवं हि तस्याप्रकृत्यर्थत्वापत्तौ तत्राख्यातार्थकत्यन्वयो न स्यात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्यु. पत्तेः । न च जयमात्रं धात्वर्थः प्रकर्षः प्रशब्दार्थ इति वाच्यमें । तथापि तस्य धात्वर्थेन्वपासम्भवात् । अभेदातिरिक्तसम्बधेन प्रकृत्यर्थप्रकारकशाब्दबोधं प्रति प्रत्ययजन्योपस्थिने हेतुत्वा है। अन्यथौदनः पचतीत्यत्र कर्मतासम्बन्धेन पाके नामा - न्वयापत्तेः । किं च प्रतिष्ठतइत्यत्र गमनत्वरूपेण बोधो न स्वात् । धातोतिनिवृत्त्यर्थकत्वे ऽभावस्य प्रशब्दार्थत्वेपि गत्यमावो नास्तीत्येव प्रत्ययः स्यात् । न चात्र तथा बोधसम्भावनापि । गत्यभावसम्बन्धित्वेमानुपस्थितेः । अन्यथा घटः अभाव इत्यत्रापि तथा बोधापत्तेः । नन्समभिव्याहारस्थले चानादिसिद्धतथाव्युत्पत्तिस्वीकारान्न दोषः । न वा विशिष्टो जयो पा. त्वर्थः । अर्थान्तरस्येवोपसर्ग विनाप्येतदर्थप्रत्ययापत्तेः । न वा विशिष्टार्थः । प्रत्येकातिरिक्तविशिष्टाभावात् । तथा चोभयोर्गचकत्वं कल्प्यम् । तद्वरं धातोर्जये क्लुप्तशक्तेरुपसर्गस्य शक्त्यवः
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy