SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ नबर्थनिर्णयः। २५७ इत्यर्थ इति कैयटो न्याचख्यौ । तम साधीयः । आरोपितबा. ह्मण्यस्य क्षत्रियादेनश्वाच्यत्वात् । अन्यथा सादृश्यादेरपि वाच्यतापत्तेः । तस्मानिवृत्तं पदार्थो यस्य नपुंसकेभावक्तइति भावे क्तः । अभावार्थक इत्ययः । विशेषणमिति । प्रतियोगिनीति शेषः । अन्यथा अत्वं भवसि अनहं भवामीत्यादौ पुरुषव्यवस्था न स्यात् । त्वदभावो मदभाव इतिवदभावांशे युष्मदस्मदोरन्वयेन तिक्षु युष्मत्सामानाधिकरण्याभावात् । अस्मन्मते च भेदप्रतियोगित्वदभिन्नाश्रय इत्याधुष्मत्सामानाधिकरण्यम् । अपि चैवं सेव्यतेनेकया सन्नतापाङ्गया अनेकमन्यपदार्थे इत्यादावेकवचननियमः । अब्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पुरुषत्वं चोपपद्यतइति भावः । विशेष्यो वेति । अयं भावः । घटो नास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति बो. धस्यानुभवसिद्धत्वात्तस्य विशेष्यतैत्र युक्ता । अत्वं भवसीत्या. दौ च युष्मदस्तद्भिन्ने लक्षणा, नन्द्योतकः । तथा च भिन्नेन युष्मदर्थेन तिङः सामानाधिकरण्यात्पुरुषव्यवस्था । त्वद्भिन्नायिका भवनक्रियति शाब्दबोधः । एवं न पचसीत्यत्र त्वद्भिन्नाश्रायकपाकानुकूलभावना भाव इति बोधः । असमस्तनः क्रियान्वयात् । अनेकमन्यपदार्थे इत्यत्रैक. वचनं विशेष्यानुरोधात् । सुबामन्त्रितइत्यतोनुवर्तमानं सुग्रहणं विशेष्यमेकवचनान्तमेव । किं चानेकशब्दाद् द्विवचनोपादाने बहूनां बहुवचनोपादाने द्वयोर्बहुव्रीहिर्न सिद्धयेदित्युभयसंग्रहायकवचनं जात्यभिप्रायमौत्सर्गिकं वा । सेव्यते ऽनेकयेत्यत्रापि योषयेति विशेष्यानुरोधात्प्रत्येक सेवनान्वयानुरोधाच्चैकवचनम् । अत एव पतन्त्यनेकेजलधेरिवोर्मय इत्यादि सूपपादमिति सं. क्षेपः ॥ ४१ ॥
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy