SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५६ । बैयाकरणभूषणे क्षस्येव तस्याप्यभ्युपगमे बाधकाभावात् । इदं त्वादिना तमआदेर्भानस्य सर्वसिदत्वाच्च । वस्तुतो निष्प्रकारकमभावप्रत्यक्ष यदि नानुभवसिद्धम्, अस्तु तर्हि तत्र सप्रकारकज्ञानत्वेनैव कारणता । इत्थं च सर्वत्र विशिष्टबुद्धिसामग्री मुलभैवेति न नेति प्रत्यक्षम् । संशयोत्तराभावप्रत्यक्षे च धर्मितावच्छेदकावच्छिन्नाभावविषयकत्वम् । यदि चोपस्थितविशेषणस्यासंसर्गग्रहस्तदापि धर्मितावच्छेदकानियन्त्रिततद्विशिष्टबोधे न बाधकम् । एवं च नोक्तो गुरुः कार्यकरणभाव इति त्वस्मद्गुरवः । तस्मानारोपः कारणम् । अस्तु वा तथापि न शब्दे । केवलं न नेत्यत्राभावबोधस्य भाष्यकारैरुक्तत्वात् । निषेधपदादिना त. द्वोधाच । अस्तु वा शाब्दे स हेतुस्तथापि न तद्वोधोनुभविकानाम् । अभावबोधस्यैव सर्वसिद्धत्वात् । न चोक्ता युक्तियुक्ता । सर्वनामसंज्ञाया एतत्तदोरति ज्ञापकादेव सिद्धेः। अन्यथा ऽस: शिव इत्यादौ प्राप्तरेवाभावात् । अकोरित्यकसहितव्यावृत्त्या सर्वनाम्न एव प्राप्तेः । अविघ्नमित्यादावव्ययीभावस्तु तत्पुरुषा. व्ययीभावयोर्वैकल्पिकत्वान्नानुपपन्नः। “रक्षोहागमलध्वसन्देहाः प्रयोजनम्" "अद्भुतायामसंहित" मिति भाष्यवार्तिकाभ्यां विकल्पाभ्युपगमात् । तस्मादभाव एव नअर्थ इत्याशयवान्स्वमतमाह ॥ अभावो वा तदर्थोस्तु भाष्यस्य हि तदाशयात् । विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ४१ __ भाष्यस्य हीति । तथा च नसूत्रे भाष्यम् । निवृत्तपदार्थक इति । निवृत्तः पदार्थो मुख्यं ब्राह्मण्यं यस्मिन्स क्षत्रिया+दिरर्थः । सादृश्यादिनाध्यारोपितब्राह्मण्या नन्द्योतिततदवस्थ
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy