SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ नयर्थनिर्णयः। अथाभावस्य नजवाच्यत्वे घटो नास्तीति शब्दादभावबुद्धि. ने स्यात्तथा च घटवत्ताज्ञानप्रतिबन्धादिकं न स्यात् । न चाग्रे तज्ज्ञानं जायतइति वाच्यम् । नियमतस्तज्ज्ञापकाभावात् । आ. रोपितत्वज्ञानमेव तथेति चेन्न । प्रत्यक्ष व्यभिचारेण तज्ज्ञानस्य तत्राजनकत्वात् । न चारोपितत्वज्ञानमप्यारोप एव प्रतियोग्यपिकरणसंसर्गज्ञानस्यैव तत्वात् । तथा च स एव हेतुः प्रत्यक्षान्तरेष्विवेति वाच्यम् । आरोपस्याभावबुद्धावहेतुत्वात् । न चेदमिदं न, नेदमिहेत्यनुभवसिद्धं तदिति वाच्यम् । द्वितीयेदमः सर्वत्रा. भावेनैव सहान्वयात् । अथ कदाचिदत्यन्ताभावस्य कदाचिदन्यो. न्याभावस्य बोधात्तत्र नियामकः संसर्गारोपस्तादात्म्यारोपश्च वा. च्य इति चेन्न। संसर्गारोपनियामकस्यैवात्यन्ताभावबोधनियामक त्वसम्भवात् सर्वदाप्यभावद्वयं बुध्यतएव । व्यवजिहीर्षावशात् व्यवहारकादाचित्कत्वमित्युपपत्तश्च । अत एवारोपितरजतत्वायामेबशुक्तौ नेदं रजतमिति रजतत्वाभावः प्रतीयतइति लीलावत्युपायोक्तमपास्तम् । यतु प्रतियोग्यारोपस्याभावप्रमायां गुणत्वेन हेतुत्वात्सर्वत्रैव स हेतुरिति । तन्न । प्रमाया गुणजन्यत्वे मा. नाभावात् । भावे वा, अभावसत्रिकर्षादेरेव तथावाद । प्रमात्वस्य कार्यतानवच्छेदकत्वाच्च । अथ नेत्येव प्रत्यक्षापत्तिः। सभिकर्षसत्वादिति तनिवृत्तये तद्ज्ञानं हेतुः । न च प्रतियोगितावच्छेदकसम्बन्धन प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिता कारकाभावविषय चाक्षुषे स्वप्रतियोगितावच्छेदकप्रकारको निथयः कारणमित्यस्य निर्विकल्पकात् घटाभावधीवारणार्थमावश्यकत्वे तत एवोक्तदोषापगम इति वाच्यम् । एतन्मते तत्का. र्यकारणभावास्वीकारात् । आरोपे सति तद्वयतिरेकेण कार्यव्यतिरेकादर्शनादिति चेन । भवतां निःप्रकारकघट इतिमत्य ..
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy