SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ १५ वैयाकरणभूषणे दोषः । किं चाभावार्थकत्वे अविध्वमित्यादौ परत्वादव्ययीभावं बाधित्वा तत्पुरुषत्वमेव स्यात् । नन्वस्तु गौणत्वेपि सर्वनामकार्यमत आह । नहि इति । तथा चातिसर्वपदे सर्वनामका - र्यापत्तिरिति भावः । सर्वादीनि सर्वनामानीति महासंज्ञाकरणमिह लिङ्गम् । इत्थं च वायौ रूपं नास्तीत्यत्र रूपाश्रिता आरोपिता सत्ता बायौ इति बोधः । पीतः शंखो नास्तीत्यत्र चारोपिता पीतशंख सत्तेत्यादि । ननु विशिष्टसत्ताया अप्रसिद्धेः कथमारोप इति चेन्न । घटादिस्थसत्तायास्तदधिकरणस्य रूपाणां च प्रसिद्धेः । विशिष्टमप्रसिद्धमिति चेन्न । विशिष्टं तावन्तः पदार्था एव ते च प्रसिद्धाः । मेलनाप्रसिद्धिश्वामयोजिका । अत एव तत्र शक्तिग्रहासम्भवेन बोधाभावापत्तिः परास्ता । अस्तु वा विशिष्टमप्रसिद्धम् । तथाप्याहार्या प्रतियोगिप्रसिद्धिः सम्भवत्येव । प्रतियोगिज्ञानस्याभावधी हेतुत्वेनाहर्यत्वं न प्रवेश्यते । गौरवात् । ससम्बन्धिकपदार्थप्रत्यक्षेपि सम्बन्धितावच्छेदकमकारका हानाहार्यसाधारणज्ञानत्वेनैव हेतुता । आहार्यज्ञानादाहार्य एव स इत्यनेनैवातिप्रसङ्गभङ्गात् । विशेषणतावच्छेदकप्रकारकज्ञानकारणतैव प्रतियोगिज्ञानकारणतेति पक्षेप्याहार्यज्ञानादप्याहार्यविशिष्टवैशिष्ट्यबोधः । तथा चात्र प्रतियोगिज्ञानसम्भवान्नानुपपत्तिः । न चैवमपि तत्र शक्तिग्रहाभावे कथं शा ब्दबोध इति शक्यम् । आरोपितत्वं शक्यमिति मते तत्र श क्तिग्रहस्यान्यत्रेव सम्भवात् । अत एव शशविषाणजन्यं कार्मु कं नास्तीत्यादौ शशविषाणजन्यकार्मुकनिरूपिता आरोपिता सत्ता इत्यादिबोधः । एतन्मते चार्थिकं घटो नास्तीत्यभावज्ञानमादाय नञर्थविशेष्यको बोध इति व्यवहारः प्रतियोगिज्ञानप्रतिबन्धादिकं च सङ्गमनीयम् ॥ ४० ॥ 1
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy