SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । दौ पदार्थीभूत घटत्वबोधकत्ववत् । न च प्रकृतिजन्यवोधप्रकारस्त्वप्रत्ययार्थः संसर्गस्तु विशेष्यः तथा च कथं स्वार्थ इति वाच्यम् । आकृत्यधिकरणन्यायेन घटत्वस्यैव वाच्यत्वात्तत्रैवोपपत्तेः । आक्षेपितव्यक्तौ तस्य प्रकारकत्वं चात्रापि सम् । उक्तं च । यदि मतुपा सम्बन्धोभिहितस्ततः प्रकृतिप्रत्ययौ स हार्थं ब्रूते इति गोमत्प्रातिपदिकादुत्पन्नो भावप्रत्ययः सम्बन्धमभिधातुमर्हति नान्यथेत्यादिना । प्रतीयते च सर्वत्र सम्बन्धः पाचकत्वं पाठकत्वमौपगवत्वमित्यादिष्विति । किं च एकहायन्यादिशब्दविग्रहेप्येकं हायनमस्याः, चित्रा गावो यस्य, विश्वे देवा देवता अस्ये, त्यादौ प्रत्ययार्थ सम्बन्धप्राधान्येन विवरणदर्शनात्तस्यैव वृत्तिवाच्यत्वमवसीयते । उक्तं च । यस्मिन्नन्यपदार्थे च बहुवीहिर्विधीयते । तत्रापि प्रत्ययार्थत्वात्सम्बन्धस्व प्रधानतेति । न च गोमानित्यादौ सम्बन्धिप्रतीतिर्न स्यादिति शङ्कयम् । उभयाश्रितेन सम्बन्धेनाक्षेपात्तदुपपत्तेः । तत्र कर्तृवत्सम्बन्धवच्चेति । यत्तु मतुवादेर्न सम्बन्धसामान्यं वाच्यम् । पर्यायतापत्तेः । न विशेषः । स हि सम्बन्धिरूप एव । सोप नानभिहितः शक्नोति तं व्यावर्त्तयितुमतः सोप्यभिधातव्यः । तथा च गोरूपस्यैकस्य सम्बन्धिनः प्रातिपदिकादुक्तत्वेपि स म्बन्धस्योभयनिरूप्यत्वात्सोप्यभिधातव्यः सम्बन्धश्चेति शक्तिद्वयकल्पनापत्तिरित्यतिगौरवम् । आवश्यकसम्बन्धिनैवाक्षेपातद्बोधोपपत्तावन्यलभ्यत्वं च । उक्तं च सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधायते । नहि सम्बन्धवाच्यत्वं सम्भवत्यतिगौस्वात् ॥ किं च । सम्बन्धिनैव सम्बन्धः प्रत्येतुं यदि शक्यते । पुनस्तस्याभिधाशक्तिं कः श्रुतेः परिकल्पयेदिति । किं च । विभक्तिवाच्यरूपेण सम्बन्धो नावगम्यते । रूपान्तरेण वक्तव्य १९ -
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy