SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १८ वैयाकरणभूषणे ति चेतर्हि, देवदचः पचतीत्यत्राप्यभेदबोधो दुर्वार इति सिद्धं नः समीहितम् । आख्यातस्य शक्तिकल्पना च कृतां कर्तृशक्त्या तुल्या, परं त्वाख्यातार्थ भावनाप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकोक्तकार्यकारणभावान्तरस्य भावनाविशेष्यक कर्तृविशेषणकबोधाय मीमांसकीयस्य च तस्याकल्पनालाघवमस्माकमतिरिच्यते । एतेन भिन्नाभ्यां धर्माभ्या मेकधर्मिबोधकत्वलक्षणं सामानाधिकरण्यमसिद्धम् । सम्भवदम्यादृशन्तु न वार्यतइति मन्दमतारणमपास्तम् । अथास्तु सा1 मानाधिकरण्यं किं तु भावनाक्षिप्तकर्त्रा भविष्यतीत्यसकृद्वातिकएवोद्घोषितमितिचेन्न । आक्षेपो हि यद्याख्यातार्थभावनयानुमानं तर्हि, धूपोयं ज्वलतीत्यादाविव तदसम्भव एव । मैत्रादिपदयोगे तदसम्भवाच्च । लक्षणा चेत्तार्ह, पिङ्गाक्ष्यादियोंगिकेष्वपि द्रव्यवाचित्वं न स्यात् । मूलयुक्तेः सामानाधिकरण्यस्योक्तरीत्यैवोपपत्तेः । द्रव्यवाचकत्वसाधकान्तरस्य चाभावात् । प्रत्युत सम्बन्धादिगुणवाचित्त्वे एव साधकमुपलभ्यते । तथाहि । घटपदात् घटत्वमकारक घटविशेष्यकबोधवद्दण्डी इत्यादौ दण्डसम्बन्धवानिति प्रतीतिः सर्वसिद्धा । तत्राकृत्यधिकरणन्यायेन निष्कृष्टघटत्ववत्सम्बन्धमात्रं वाच्यं स्यात् । किं च तदस्यास्त्यस्मिन्निति मतुप् सास्यदेवतेत्यादावस्येत्यर्थे मतुवादिविधानम् । अस्त्येत्यत्र प्रत्ययार्थत्वात् संसर्गः प्रधानमिति तत्रैव तेषां विधिः स्यात् । तथा च मतुबर्थे विहितबहुव्रीहेरापे स एव वाच्यः स्यात् । उक्तं चारुणाधिकरणवार्त्तिके "बहुवीहिः समासोयं मतुवर्थे विधीयते । अस्यात्रेति च सम्बन्धे मत्वर्थीयः प्रवर्तते " इति । युक्तं चैतत् । अत एव देवदत्तस्य गोमत्त्वामित्यत्र स्वप्रत्ययस्य संसर्गबोधकत्वं सङ्गच्छते । घटत्वमित्या
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy