SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५२ वैयाकरणभूषणे नात्तत्र साधुत्वमेव । यदि च यत्र व चिद्वयत्पादितस्य सर्वत्र साधुता स्यात्तर्हि सर्वेषामनुकरणे तथात्वात्सर्वत्र साधुत्वे साध्वसाधुविभागोच्छेदः स्यात् । पररीत्या गाच्यादीनामशक्तत्वालक्षणायभावेनुकरणेपि तन्न स्यात् । तत्रैव शक्तो लक्षणया ग. वादौ साधुः स्यादिति तत्तदर्थविशेष एव तद्वाच्यम् । उक्तं हि वाक्यपदीये । शब्दसंस्कारहीनो यो गौरिति प्रयुयुक्षते । तमपभुशमिच्छन्ति विशिष्टार्थनिवेशिनः ॥ यथा गोण्यादयः शब्दाः साधवो विषयान्तरे । निमित्तभेदात्सर्वत्र साधुत्वं च व्यवस्थित". मिति ॥ ननु व्याकरणव्युत्पाद्यत्वमस्तु साधुत्वं तथापि तज्ज्ञानस्य शाब्दबुद्धिहेतुत्वस्य तद्व्यतिरेकनिश्चयस्य शाब्दप्रतिबन्धकत्वस्य वा पूर्व भवतैव निरस्तत्वाव्यर्थस्तद्विचार इत्यत आह । नियम इति । 'साधुभिर्भाषितव्यम्' 'नापyशितवै न म्लच्छितवै' इत्यादौ पुण्यपापजननात्साध्वसाधुविधिप्रतिषेधविषयज्ञापनमेव तज्ज्ञापनफलमिति भावः । एतच्च याझे कर्माण। न म्ळेच्छितवा इत्यस्य ऋतुप्रकरणे पाठादिति भाष्यकाराः । नन्वेवं सति दर्शपूर्णमासप्रकरणे नानृतं वदेदिति निषेधात्तत्र तद्विकृतिषु च न म्लेच्छितवै इत्यतः सोमादौ च तन्निषधप्राप्तेरनारभ्याधीतनिषेधान्तरानर्थक्यं स्यादिति चेन्न । पुरुषार्थक्रत्वर्थ भेदे. नोभयोरुपपत्तेः । ननु किमत्र पुण्यजनकतावच्छेदकं जातिरिति चे,त्तहि गोशब्दोश्वपि साधुः स्यात् । नहि गौः कं चित्प्रत्येव गौरिति चेन्न । राजसूयादेब्राह्मणफलाजनकत्ववदेतस्याविशेषे प्रयुक्तस्यैव पुण्यजनकत्वात् । एतनिर्णायकं च व्याकरणकोशादिकमिति संक्षेप इति प्रतिभातीति दिक् ॥ ३८ ॥ अतिरिक्त शक्तर्ग्रहोपायमाह ॥ सम्बन्धिशब्दे सम्बन्धो योग्यतां प्रति योग्यता ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy