SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः। क्षादवाचकाः ॥ अम्बाम्बोति यदा बालः शिक्ष्यमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः॥ एवं साधौ प्रयोक्तव्ये योपभ्रंशः प्रयुज्यते। तेन साधुव्यवहितः कश्चिदर्थोभिधीयते " इति ॥ अव्युत्पन्नस्य शक्तिभूमादेव बोधः । न च पामराणां शक्त्यग्रहे कथं तद्भूमः । पूर्वपूर्वभूमादुत्तरोत्तरभूमोपपतेः । प्रथमतस्तु व्युत्पमोपभ्रंशात्साधुशब्दं बुध्वा व्यवहृतवान् । तन्मूलकः शक्तिभूमोन्येषामिति । इत्थं च संस्कृते एव शक्तिसिदौ शक्यसम्बन्धरूपत्तेरपि तत्रैव भावात्तत्वं साधुत्वम् । तद्विषया एव साधुभिर्भाषितव्यमित्यादयो विधयः । तथा च नातिप्रसङ्ग इति । एतज्ज्ञानं शाब्दबोधकारणम् । ग्राम गाम इत्यादावन्वयाबोधादिति सम्प्रदायः । वस्तुतो वृत्तिमत्त्वं न साधुत्वम् । सङ्केतत्वाद्यज्ञानपि साधुत्वव्यवहारात् । समासादौ सा. धुशब्दे सङ्केतादिसत्त्वे सङ्केतस्यैव शक्तित्वेन शक्त्यापत्तेश्च । प्रकृतिप्रत्ययसमुदायस्यासङ्केतितत्वेनासाधुत्वापत्तेश्च । सङ्केतितत्त्वे च शक्त्यापत्तेः । प्रत्येकशक्तिमादाय साधुत्वे च बाधत. इत्यादिवद्वापतीत्यस्यापि साधुतापत्तेः । तस्मान्न सङ्केतितत्व. घटितं साधुत्वम् । किं तु व्याकरणनिष्पाद्यत्वम् । यत्र यः शब्दो व्याकरणे व्युत्पादितः स तत्र साधुः डित्थादिनाम्नामप्युणादयोबहुलंमित्यनेन व्युत्पादनसम्भवान्नानुपपन्नम् । एवं नान्तरीयकादिशब्दानामपि । एवं साधुत्वज्ञानकारणमित्यप्ययुक्तम् । अवयवादिव्युत्पन्नेन पूर्वप्रयोगमज्ञात्वापि ननकादिप्रयोगात् । कि त्वसाधुत्वनिश्चयः प्रतिबन्धकः । नातो ग्राम गामादावन्वयबोधः । अत एव साधोरप्यसाधुत्वनिश्चयेन बो. धः । एवं च गाव्यादेरसाधुत्वज्ञानरूपप्रतिबन्धकसत्त्वान्न बोधकत्वमिति साधुस्मरणाच्छक्तिभूमाद्वा तद्वाच्यामिति तु नवीनाः ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy