SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४३ शक्तिनिर्णयः। रिति बदन्ति । नम्वस्तु तावबोधकत्वज्ञानमेवार्थस्मरणहेतुः परं तु सर्वेषां पदानां लक्षणया शक्तिभूमाद्वा सकलबोधकत्वात्सर्वत्र सर्वेषां शक्त्यापत्तेरीश्वरेच्छा शक्तिरुच्यते । कारणं पुनरेतद् ज्ञानं न ब्रूम इति चेत्तथापि ईश्वरसङ्केतः शाब्दबोधहेतुपदार्थ. स्मरणहेतुज्ञानविषय इति सिद्धान्तोसङ्गत एव । शेषमुपरिष्टाद्वक्ष्यामः । तस्माद्बोधकत्वमेव शक्तिः । तच्च बोधजनकत्वामिन्द्रियादिवत् । अत एव कारणत्वं शक्तिरिति सिद्धान्तं स्फुटीकतुमेवेन्द्रियाणामिति वाक्यपदीयकारिकामुदाजहार ग्रन्थकारः । तथा स्मरणाभिमानप्रमोषखण्डने विवरणेप्युक्तम् । बोधजननसामर्थ्यमेव शब्दस्यार्थेन सम्बन्ध इति । एवमपभूशानां वाचकत्वविचारे शब्दकौस्तुभेप्युक्तम् । घटबोधजननसामर्थ्यमेव घटादिपदानां शक्तिरिति । तच्चातिरिक्तमनतिरिक्तं वेत्यन्यदेतत् । अथैवं लक्षणोच्छेदः । एवं व्यञ्जनावादे तदुच्छेदश्चोत चेत् । अत्रोच्यते । लाक्षणिकपि शक्तिरेव । शक्तिग्राहकस्य व्यवहा. रस्य मुख्यलाक्षणिकसाधारणत्वात् । अत एवं प्रायः सर्वे सर्वाC इति सिद्धान्तप्रवादः पदेन सति तात्पर्ये प्रायः सर्वेषां बो. धनात् । युक्तं चैतत् । अन्यथा प्रत्यक्षादिजन्योपस्थितेः शाब्दबोधानङ्गत्वाच्छाब्दबोध प्रति शक्तिजन्योपस्थितेलक्षणाजन्योपस्थितेश्च कारणत्वं वाच्यम् । तथा च कार्यकारणाभावद्वयकल्पने गौरवं स्यात् । अस्माकं पुनः शक्तिजन्योपस्थितित्वेनैव कार• णतेत्येक एव स इति लाघवम् । अपि च लक्षणात्तिस्वीकारे कार्यकारणभावस्य प्रत्येकं व्यभिचारः शक्तिजन्योपस्थिति वि. नापि लक्षणाजन्योपस्थितितः शाब्दबोधात् । न चाव्यवहितो. चरत्वसम्बन्धन तत्तदुपस्थितिमत्त्वं कार्यतावच्छेदकम् । तत्तदुपस्थितित्वं च कारणतावच्छेदकम् । अनन्तकार्यकारणभावप्रस
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy