SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४२ वैयाकरणभूषणे भ्रंशादपि बोधेन व्याभिचाराच्च । न च शक्तिभ्रमात्साधुश. ब्दस्मरणाद्वा तत्र बोधः । अनुपदमेव खण्डयिष्यमाणत्वात् । एवं लौकिकानां गवादिपदे तत्तदर्थबोधजनकत्वग्रहानन्तरमेव बोधदर्शनात्सङ्केतत्वादिरूपेणापि तज्ज्ञानकारणतायां व्यभिचार एव । एवं चार्थधीजनकत्वमेव पदस्य शक्तिः । यन्तु धीजनकत्वं तद्योग्यता । सा च तदवच्छेदकधर्मवन्त्वम् । स च क्लप्तत्वा. दीश्वरसङ्केत एव । अक्लृप्तकल्पनायां गौरवात् । तथापि पदस्यार्थधीजनकत्वं ज्ञाप्यसम्बन्धं विनानुपपन्नं सम्बन्धत्वेन क्लृप्तत्वात्तामेव कल्पयति । यद्यपि सङ्केतत्वेन तज्ज्ञानं न कारणं व्यभिचारात् । तथापि तद्धीजनकतावच्छेदकत्वेनैव वाच्यम्। न चेतोपि लाघवात्तद्धीजनकत्वेनैव तज्ज्ञानं कारणम् । आधुनिके देवदत्तादौ सङ्केतज्ञानादेव बोधेन व्यभिचारात् । न चात्रापि विशेषणतया तद्धीजनकत्वमवगाहतएवेति वाच्यम् । स्वातन्त्र्येण तज्ज्ञानस्यावश्यकत्वात् । अन्यथा नेदं तद्धीजनकमिति जा. नतो ऽस्माच्छब्दादयमों बुद्धानेनेति जानतस्तद्ग्रहापत्तेरिति । तत्तुच्छम् । तद्धीजनकतावच्छेदकत्वेन ज्ञानस्यार्थप्रतीतिहेतुत्वे गौरवात् । आधुनिकदेवदत्तापदिपदे इदं पदमेनमर्थ बोधयत्विति सङ्केताबोधस्थलेवच्छेदकत्वेन ज्ञानस्य व्यभिचाराच्च । ननु तवाप्यत्र व्यभिचार इत्युक्तामति चेत् । भ्रान्तोसि । विशेषणतया तद्धीजनकत्वस्य तत्रावगाहनात् । न च नेदामिति पूर्वोक्तदोषः । तत्र बाधेन तद्धीजनकत्वस्यानवगाहनात् । अन्यथा नेदं रजतमिति जानतो भ्रान्तिज्ञस्य पुरोवानि तुल्ययुक्तया र. जतत्वभाने भान्तत्वापत्तेरिति । के चित्त्वाधुनिकदेवदत्तादिपदस्थले तद्धीजनकत्वज्ञानमग्रे मानसं करप्यते ततो बोधः । ला. घवानुरोधात् । अत एव परमते परामर्शान्यथाख्यात्योः सिद्धि
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy