________________
शक्तिनिर्णया। गो न स्यादिति वाच्यम् । यत परमेश्वरसङ्केतः स साधुरित्यभ्युपगमादिति चेत् । अत्र ब्रूमः । परमतेपीश्वरसङ्केतएवाङ्गमस्मदादीनामपि वा । आये कथमार्यम्लेच्छानामनियमो बोधकता. याम् । तत्रेश्वरसङ्केतस्याभावात् । किं वैश्वरसङ्केतोपि गृहीत एवाङ्गम् । अन्यथा व्युत्पन्नानां बोधापत्तेः । ग्रहश्चास्मदादिव्य. वहारात्तया चास्मदाद्यपदेश एवं शक्तिः, किमीश्वरसङ्केतकल्पनया । इदानीन्तनसङ्केनेनेश्वरसङ्केतो ज्ञाप्यतइति चे, त. स्मिन्मतेपि स्वाभाविकः सम्बधो ज्ञाप्यतइति तुल्यम् । द्वितीये, पदार्थोपस्थितिमात्रस्य प्रयोजनत्वात्साध्वसाधुविभागार्थकं व्याकरणादि व्यमिति । औत्पत्तिकसम्बन्धे एव किं मानमिति चेत् । अधुनातनो न सङ्केतयिता । लोकोत्तरे च न मानमित्यतोन्यथानुपपत्तिरेव । तस्मादीश्वरसङ्केतो न शक्तिरिति वद. न्ति । तन्तुच्छम् । क चित्सङ्केतस्य क चिच्छतानं कारणमि. ति व्यभिचारादेकस्यापि तत्तथा न स्यात् । अस्माकं पुनः स.. बेतत्वरूपेणैव तद् ज्ञानं हेतुः। तच्चेश्वरसङ्केतसाधारणम् ।न चास्मदादीनामेव स तथास्तु । नियतशक्तिसाधुत्वाद्यनुरोधेन भ. गवत एव तत्कल्पनात् । सृष्टयादिव्यवहारे त्वयापि तस्य सक्तिग्राहकत्वेनाभ्युपेतव्यत्वात् । उभयासिद्धेश्वरेच्छां त्यत्कातिरिक्तकल्पने गौरवाच्च । तादृशेश्वरसङ्केतितत्वं च साधुत्वम् । तत्परिच्छेदकं च व्याकरणकोशादिकमिति न तद्वैयर्यम् । एवं च सर्वथाप्यतिरिक्तपदार्थान्तरकल्पनमयुक्तमिति संक्षेपः । तस्मादीश्वरेच्छैच शक्तिरिति नैयायिकानुसारिणः । रादान्तस्तु न तावत्सङ्केतः शक्तिः। ईश्वरादेः सङ्केतमज्ञात्वापि मीमांसकादीनामर्थप्रत्ययेन तद्भानकारणतायां व्यभिचारात् । स्वरूपसने व स हेतुरिति चेन्न । अगृहीतशक्तिकादपि बोधापत्तेः । अप