SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४० वैयाकरणभूषणे भाविके सम्बन्धे म्युलपमजदयूत्पमायापि शेषः स्यात् । नहाग्निरविदिशक्तिर्न दहतीपत्र प्रत्यक्षादेः स्वाभाविक प्रत्यायकवे सत्यपि सन्द्रिप्रसात्रिकर्षापेक्षा तथात्रापि सङ्केतग्राहसचिवस्यैव बोधकत्वमित्याह । प्रत्यक्षवच्चेति । अथापि स्वाभाविकः सम्ब का सर्वेषां शब्दानां सर्वैरथैः समास्थीयते कस्य चित्केन चिदेव समं वा । नायः । शब्दार्थव्यवस्थानुपपत्तेः । अन्त्ये, आर्यम्लेच्छानामनियमाभावप्रसाः । तथाहि । आर्या हि यशब्द दीर्घके प्रयुम्जते दीर्घशूकमेव च बुध्यन्ते म्लेच्छास्तु प्रियको प्रयुञ्जते प्रियगुं च बुभ्यन्ते इत्येवं नियमः स्वाभाविक्यां शक्ती न स्यात् । नहि प्रदीपो रूपप्रकाशनशक्ती रसमपि प्रकाशयति । सङ्केतपक्षे सङ्केतानियमादनियमो युज्यतइति चे,न्न वयं क्वचिद-पि शब्दस्य सङ्केतारोधकत्वं नास्तीति ब्रूमः । किं तु कव चि. स्वाभाविकया शक्त्या बोधः क्व चित्सङ्केतादित्यनियमो यु. -ज्यते । यद्वा । स्वाभाविकी शक्तिरेकत्रैवास्ति । व्युत्पत्तिवना यवहारनियमसम्भवात् । यथा खलु शुक्तिसत्रिकर्षेण चक्षुषा कश्चिच्छुक्तिको प्रतिपद्यते कश्चिद्रनतम् । न चैतावता चक्षुषो ऽर्थप्रत्यायकत्वं न स्वाभाविकम् । तथा शब्दस्यापि शक्त्यनुसायेननुसारिव्युत्पत्तिलक्षणसहकारिवशादनियमपि स्वाभाविकश. क्तिसद्भावः सम्भवतीति । तदिदमाह । प्रत्यक्षवच्चेति । इया. विशेषः । शब्दः सङ्केतेनापि बोधको न प्रत्यक्षमिति । ननु स्वा. भाविक्रसम्बन्धग्राहकत्वेन सङ्केतावश्यकत्वे किं स्वाभाविकया शक्त्या । अथासति स्वाभाविके सम्बन्धे सङ्केतनियम एवं कथं स्यात् । सत्यम् । सर्गादिभुवा हि महर्षिदेवतानां परमेश्वरानुग्रहवतां परमेश्वरात्सङ्केतस्य मुशकत्वात् । तद्वयवहाराच्चान्येषामित्यमत्पर्यन्तं मुग्रहः सङ्केतः । न चैवं साध्वसाधुविभा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy