SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४४ वैयाकरणभूषणे कात् । किं च । पदार्थोपस्थिति प्रत्यापि शक्तिज्ञानत्वेन लक्षणा ज्ञानत्वेन च हेतुतति व्यभिचारो गौरवं च पूर्ववदेवोति द्रष्टव्यम्। न चेदं पदमेतदर्थबोधजनकमित्यादिशक्तिज्ञानकार्यकारणभावकल्पनेपि पदतदर्थभेदेनानन्तकार्यकारणभावकल्पनं तवापि समानम् । परस्परं व्यभिचारवारणायाव्यवहितोत्तरत्वघटितत्वे च सुतरामिति वाच्यम् । शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदर्थभे. देन तादृशकार्यकारणभावकल्पनागौरवस्य तवापि तुल्यत्वात् । लक्षणाज्ञानकार्यकारणभावकल्पनागौरवं पुनर्भवतामतिरिच्यते । अथ वृत्तिजन्योपस्थितित्वेनैव शाब्दबोधहेतुता वृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतति नानेकतत्कल्पनागौरवमिति चेत् । वृत्तित्वं हि शक्तिलक्षणान्यतरत्वं शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थसम्बन्धत्वं वा न कारणतावच्छेदकं शक्तित्वमपेक्ष्य गौरवात् । शाब्दबोधहेतुतावच्छेदकस्य पदार्थोपस्थिति तेरज्ञानं तद्घाटितकार्यकारणभावग्रहस्याप्यसम्भवात् । किं च कार्यमेव कुत्र जायतां क नेत्यतिप्रसङ्गवारणार्थं तदवच्छेदकादरः तच्च कार्यस्यावच्छेदकत्वे न सङ्गच्छतइति । यत्तु शक्यसम्बन्धरूपलक्षणायां शक्तरपिप्रवेशान्ममापि पदार्थोपस्थितौ शक्तिज्ञानत्वेन शाब्दबोधे च शक्तिजन्योपस्थितित्वेनैव हेतुतति । तदश्रद्धेयम् । श. क्तिज्ञानपदार्थोपस्थित्योस्तत्कार्यकारणभावे समानविषयत्वस्याघश्यकत्वात् । अन्यथा घटमानयति वाक्यं हस्तिनं च समूहालम्बनविधया स्मरतो घटपदादिभ्यो घटादेः गजादस्तिपकस्य समूहालम्बनस्मरणे सति घटानयनवद्धस्तिपकस्यापि शाब्दबोधविषयतापत्तिः । समूहालम्बनरूपायां पदार्थोपस्थितौ वृ. तिजन्यत्वसत्त्वात् । किं चेह सहकारतरौ मधुरं पिको रौतीत्यादिप्रसिद्धपदसामानाधिकरण्याद्वयवहाराद्वा शक्तिग्रहस्थले प्रत्य
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy