SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २१८ वैयाकरणभूषणे सम्बन्धः संसर्ग इत्यप्ययुक्तम् । नैयायिकमीमांसकैः सम्बन्धि पाचकत्वस्यैव स्वीकारात् । 'भूमनिन्दाप्रशंसासु नित्ययोगतिबायने । सम्बन्धेस्तिविवक्षायां भवन्ति मतुबादय' इति भाष्ये तु विशेष्यत्वेनैव वाच्यत्वस्वीकारादिति ध्येयम् । चिन्तनमित्यत्र नासक्तमिति शेषः ॥ १६ ॥ इति वैयाकरणभूषणे समासशक्तिनिर्णयः ॥ शक्तिप्रसङ्गात्पदमात्रे एवातिरिक्तां शक्तिं समर्थयते ॥ इन्द्रियाणांस्वविषयेष्वनादिर्योग्यता यथा । अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा ॥३७॥ इन्द्रियाणां चक्षुरादीनां स्वविषयेषु चाक्षुषप्रत्यक्षादिषु यथा ऽनादिर्योग्यता बोधकारणता तथा शब्दानामपि सैर योग्यतेत्यर्थः । इयं च पदार्थान्तरम् । ननु क्लुप्तेश्वरेच्छेवास्तु पदार्थान्तरत्वे चातिगौरवमिति चेन्न । ईश्वरेच्छाज्ञानप्रयत्नानामन्यतमपरिशेषे मानाभावात्सर्वेषां च तथात्वे गौरवम् । किं चेश्वरेच्छा अपभ्रंशलाक्षणिकसाधारणीति तेषामपि शक्तत्वापत्तिः। अपि चेश्वरेच्छाया भतिप्रसङ्गाद्विशिष्य शक्तित्वासम्भव इति वदन्ति । अत्रोच्यते । विनिगमकाभावे चास्त्वीश्वरना. नस्य शक्तित्वम् । अत एव लीलावत्युपाये प्रथमत एवेश्वरज्ञानं वक्तिरित्युक्तम् । वस्तुतस्तु कल्प्यमानपदार्थेनापि प्रत्येकं विनि. गमकाभावान्नातिरिक्ततत्सिदिः । न चेच्छाया अतिप्रसक्तत्वात्तत्तदुपाधिवशिष्ट्यापेक्षणानपेक्षे एव विनिगमकम् । घ. टपदाद घटो बोद्धव्य इत्येतादृशविलक्षणविषयतासम्बन्धेनेयं घटपदस्य शक्तिरित्यभ्युपगमेनोक्तदोषाभावात् । नन्वेवं विनिगम नाविरहात्पदार्थ सिद्धिर्न स्यादिति चे,म स्यादेव । भपभ्रं.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy