SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः । २३५ सा" "अथातो ब्रह्मजिज्ञासे"त्यादौ धर्माय जिज्ञासा, ब्रह्मणे च जिज्ञासेत्यादि व्याचक्षाणाः शबरस्वामिनः प्राचीनवृत्तिकृतश्च भट्टपादैर्वाचस्पतिमिश्रप्रभृतिभिश्च पर्यवसितार्थपरतया व्याख्ये. याः पर्यनुयोज्याश्च न स्युः । नहि ज्ञापकसिद्धत्वस्य तुल्यत्वेपि तएव प्रामाणिका विपरीताश्च शक्यन्ते वक्तुम् । यन्तु परिमले प्रकृतिविकारभावाभावपि चतुर्थीसमासस्वीकारे चतुर्थीतदर्थेति सूत्रे बलिरक्षितग्रहणवैयापत्चिरित्युक्तम् । तत्त्विहापि समम् । वस्तुतस्तु अग्निहोत्रपदमन्तोदात्तं पश्यते । तच्च समासस्येत्यनेन तत्पुरुषादावुपपद्यते । बहुव्रीहौ तु बहुव्रीहौ प्रकृत्या पूर्वपदमिति विशिष्य स्वरान्तरविधानादत्र तदभावादयुक्त एव बहुव्रीहिरिति सद्गर्भ यौगिकामिदं नामेत्याधयुक्तमेव । तस्माद्यादि यौ. गिकं नामेत्याग्रहस्तदा हूयतेस्मिन्निति होत्रम् । ताभ्यामन्यत्रोणादय इत्यधिकरणे नः । तत अग्नेर्होत्रमग्निहोत्रमिति तत्पुरुष एव । एवं स्वरो न विरुद्ध इत्यादि सुधीभिर्जेयम् । तस्मात्पष्ठचन्तादिना विग्रहासम्भवादगत्यात्र विग्रहवाक्ययोर्विशेषणविशेष्य साम्यत्याग इति स्थितम् ॥ ३५ ॥ वस्तु प्रथमान्तानामेव बहुव्रीहिः पक्षे चित्रा गावो यत्यपि वाक्यमस्तु । परं तु विग्रहत्वं चित्राणां गवामित्यस्यैव अतिसमानार्थत्वात् । अन्यथा विग्रहाच्छक्तिनिर्णयो न स्यात् । एवं प्राप्तोदक इत्यत्रापि प्राप्तमुदकं यमित्यस्य न विवरणत्वं किं तूदकर्तृकप्राप्तिकर्म ग्राम इत्यस्यैव । न चैवं समस्यमानपदविवरणविरहाहहुवीहेनित्यसमासतापत्तिः । समासार्थबोधकवाक्यासम्भावन एव नित्यसमासत्वात् । यथोन्मत्तगङ्गं लोहितगङ्गमित्यादेः । अत्रान्यपदार्थे च संज्ञायां समासः। संज्ञा चोन्मत्ता गङ्गा यस्मिन्नित्यनेन न बोध्यतइति न लौकिको वि.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy