SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३४ वैयाकरणभूषणे षष्ठयन्तेन वा । नायः । अलौकिके प्रविष्टानामेव पक्षान्तरे परिनिष्ठितेपि प्रयोगसम्भवे उपस्थितपरित्यागस्यान्याय्यत्वात्पष्ठचन्तत्वेन विग्रहप्रदर्शनायोगात् । तथा ऽसम्भवाच्च । त. थाहि । कतसु विश्वसु इत्यादि सर्वत्र स्थितौ विभाषा समाससंज्ञायां यदा सा जाता तदा प्रातिपदिकसंज्ञा । ततः सुपोषातुमातिपदिकयोरिति विभक्तिलोपो भवति । यदा तु सा न भवति तदा तस्या विभक्तेः को निवारयितेति विभाव्यताम् । तथा च तस्या एवोत्तरं प्रवृत्तानुशासनाच्छ्रवणं स्यात् । इत्थमन्यत्राप्यूखम् । न द्वितीयः । शेषोबहुव्रीहिरित्यत्र यस्यैव त्रिकस्य न स. मास उक्तस्तस्यैवोक्तादन्यत्वात्तन्मात्रगत एवात्र शेषो विवक्षिःत इति प्रथमान्तानामेव स इति भाष्यकारैव्यवस्थापिका तस्मानोक्तविग्रहसम्भवः । एतेनाग्निहोत्रं जुहोता विधिवाक्ये ऽग्नये होत्रमास्मिन्निति यौगिकमग्निहोत्रनामोति वदन्तो मीमांसकाः परास्ताः । यत्तूक्तं परिमले नात्यन्तं व्यधिकरणब. हुचीहेरसम्भवः । सप्तमीविशेषणेबहुव्रीहाविति ज्ञापन कण्ठेकाल इत्यादौ तदभ्युपगमात् । तदेवं व्याप्तिन्यायेन सच्छास्त्रजन्मा हि विवेकलाम इत्यादिपञ्चम्यन्तोप्यवज्र्यो बहुव्रीहिरिति वामनेनोक्तत्वाच्च । परं त्वेकज्ञापकसिदोप्यसौ न सर्वत्र यु. क्तः। शेषोबहुव्रीहिरित्यनुशासनवैयापत्तेः । किं तु प्रामाणिकप्रयोगात्व चिदेवेति । तच्चिन्त्यम् । सप्तमीविशेषणबहुव्री. हाविति ज्ञापकसिद्धस्यापि ज्ञापकसिद्धं न सर्वत्रेति परिभाषाविरोधेन सर्वत्र प्रवृत्त्ययोगात् । अन्यथा शेषोबहुव्रीहिरिति सूत्रानर्थक्यं च स्यात् । किं चैवं वैयाकरणाख्यायां चतुर्थ्या - इति ज्ञापकात्मकृतिविकारभावाभावपि चतुर्थीसमासस्वीकारा. . पत्तौ तन्निरासकत्वोक्तिविरोधापत्तिः । तथा "अथातो धर्मजिज्ञा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy