SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ समासक्तिनिर्णयः । २३१ विरोधः स्पष्टः । किं च चेतनत्ववदनेकत्वस्यापि युक्तिसाम्यादापत्ताविन्द्रादिशब्दानां जातिशब्दतापत्तिः । स्वीकृतं च तथोत्तरमीमांसायां देवताधिकरणे, तथा च जातिकालसुखादिभ्योनाच्छादनात कृतमितप्रतिपन्ना इति विधानादन्तोदात्ततापतौस्वरविरोधः सिद्धान्ते स्यात् । तस्माद्युक्तः स्वरान्निर्णयः । वस्तुतस्तु पीतशब्दस्य दानार्थकत्वे तत्पुरुषापतिर्दुर्वारा । समुदायदानवयवानामपि दानात् । अन्यथा धान्यराशिदाने प्येकदेशस्वीकारो न प्रत्यवेयात् । अत एव सर्वप्रदानाधिकरणे "नन्वग्न्यादिभ्यो दत्तं कथं स्विष्टकृते दीयते त्यक्तस्य पुनः स्वीकारे शिष्टाचारविरोधादित्याशङ्कय प्रत्यक्षवचनविहितत्वान दोष" इति परिहृतं सङ्गच्छते । अन्ययोर्वरितस्यैकदेशस्य त्यागविरहाच्छङ्काया एवाभावादलग्नकतापत्तेः । न चात्र समुदायदानमेव नास्तीति वाच्यम् । पूर्वसङ्कल्पितो हि समुदायस्तस्मै दत्तः तदवयवस्त्वयमित्यादिग्रन्थानामुक्त्यसम्भवापत्तेः । "तस्मातत्पुरुषे स्वार्थलाभः स्यादुत्तरपदे बहुव्रीहौ द्वयोरन्यपरत्वात् दुर्बलत्वधी" रिति पूर्वपक्षे पीतशब्दे लक्षणेति सिद्धान्तवचः शिव्यधन्धनमात्रमिति विभावयामः । किं तु स्वराद्बहुव्रीहौ समुदायशक्ति स्वीकृत्य श्रुत्या वा निर्णय इत्येव तप्त्वं भट्टपादैरभ्युपे. यमिति परिभाव्यतां सूरिभिः । ग्रन्यस्त्वित्थं योज्यः । अपष्ठयर्थ बहुवीहिर्द्वितीयाद्यन्तार्थक बहुव्रीहिः । षष्ठ्यर्थ बहुव्रीहौदामोदरं इत्यादी रूढेरपि स्वीकारात् केवलं यौगिकत्वसूचनायेदं तत्रापि व्युत्पत्त्यन्तरस्य शक्तेः कल्पनात् क्लृप्तस्यानन्यलभ्यार्थन्यायस्य त्यागश्च तव मीमांसकम्मन्यस्यास्ति । तत्कि - मन्येष्वपि समासेषु शक्ति न कल्पयेरिति । अषष्ठ्यन्तेति पाठे स्वरूपसद्विशेषणं परमतनिराससूचकम् । तद्यथा । इत्थं ह्याहु
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy