SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २३० वैयाकरणभूषणे व्रीहौ प्रकृत्या पूर्वपदमिति बहुव्रीहिस्वरस्यैव सम्भवात्तस्मानिर्णयासम्भवात् । अन्यथा नखनिर्भिन्नम्भवतीत्यत्रापि तत्पुरुषत्वं न स्यादिति चेत् । अत्रोच्यते । अचेतनदेवतायाः यानास - म्भवात् पिबतिर्दानलक्षणार्थ इति वार्त्तिके स्पष्टमेव । उक्तं च शास्त्रदीपिकायामपि । तत्पुरुषे इन्द्रपीतशब्द इन्द्राय दत्तस्येत्येवं विशेषणं स्यात् । न चासाविन्द्राय दत्तः पूर्वसङ्कल्पितो हि हुताहुतसमुदायस्तस्मै दत्तस्तदवयवस्त्वयमित्यादिना । अपि चैवं इन्द्राग्निभ्यां पीतेपीन्द्रपीतत्वस्य डित्थडपित्थयोर्मातरि डिस्थमातेतिवद्वक्तुं शक्यत्वादैन्द्रापि मन्त्रलिङ्गाबाधान्मन्त्रप्रवृत्तावैन्द्राग्ने तु लिङ्गभावात्स्यादित्यधिकरणोच्छेदापत्तिः । तस्मात्पीतशब्दो दानार्थक इति स्वीकार्यम् । तथा चन्द्रोद्देश्यके दाने इन्द्र. स्य कर्त्तृत्वकरणत्वयोरसम्भवान्न ततस्तृतीयेति तृतीयाकर्मणीत्यस्य प्रहृत्तिः सम्भावितैव न । अथ कर्तृकरणतृतीयाया अ. सम्भवेपि हेतुतृतीया स्यात् । न चोपपदविभक्तेः कारकविभतिर्बलीयसीति न्यायान हेतुतृतीया सम्भवतीति वाच्यम् । एवं हि त्वया सम्प्रदान चतुर्थी वाच्या तथा च समासो न स्यात् । तादर्थ्य समासस्य बलिरक्षितग्रहणात् ज्ञापकात्मकृतिविकारमात्रविषयताया व्युत्पादितत्वादिति चे, तर्हि तृतीयापक्षेपि समासासम्भवात्सापि न युक्ता । तृतीया तत्कृतार्थेत्यादितद्विधायकेषु हेतुतृतीयायाः समासानभिधानात् । तृतीयेति योगविभागचतुर्थीति योगविभागेन तुल्यः । बळिरक्षितग्रहणानर्थक्यं च तृतीयासमा सविधाय कान्तरानर्थक्यापत्त्या तुल्यम् । तस्मात्समासश्छान्दसः षष्ठीसमासो वेति वाच्यम् । तत्र स्वरान्निर्णय इति सुष्टूक्तम् । अथ चेतनदेवतापक्षे इदमधिकरणम् । तत्र पानसम्भवात्कतृतृतीया स्यादिति चे, चन्द्राग्ने तु लिङ्गभावात् स्यादित्यधिकरण •
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy