SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२० वैयाकरणभूषणे . रणमतानि विशेष्यतयानूध विशेषणभूतो गुणः परिच्छेदकत्वेन न विधीयते । येन द्रव्येण किं चित्क्रियते तेनारुणगुणकेनोति पूर्वपक्षाशय इति चेन्न । एवं हि लक्षितद्रव्यस्य कयएव करणत्वसम्भवाद्वाक्यभेदायोगात् । अथ श्रोतकहायन्यवरुद्ध लामाणकद्रव्यनिवेशो न युक्त इत्युक्तमेवेति चेन्न । पिङ्गाक्ष्यकहायनीशब्दयोरपि समासत्वाल्लक्षणयैव द्रव्यप्रतिपादकत्वेनकहायन्याः श्रौत. त्वासम्भवात् । तस्मात्पूर्वपक्षासम्भवादरुणाधिकरणोच्छेदापत्ते, बहुव्रीही शक्तिरावश्यकी । अन्यथा यौगिकानां द्रव्यवाचकस्वसाधनं वार्तिकोक्तं च व्यर्थ स्यात् । अथ त्रयाणामपि गुणवाचकत्वे अमूर्तत्वात्कीणातौ करणत्वासम्भवात्रिभिरपि प्राकरणिकद्रव्यानुवादेन गुणा विधीयन्ते इति पूर्वपक्षरचनेति चेन्न । अनुवादाय त्रयाणामपि द्रव्ये लक्षणाभ्युपगमेन तत्रयविशिक्रयभावनाया अपि विधिसम्भवे क्रीणात्यनन्वयस्यामाप्तानुवादेनानेकविधाने वाक्यभेदस्य च पौर्णमास्यधिकरणन्यायेन निरस्त तया पुनः शक्तुिमप्यशक्यत्वात् । अथैकत्वे द्रव्यगुणयोरैककानियमः स्यादिति सूत्रविरोधाच्च । द्रव्यगुणयोः सपावेशे एव सूत्रप्रवृत्तेः स्पष्टत्वात् । तस्मादरुणाधिकरणारम्भाय स्वयापि बहुव्रीडादौ शक्तिः स्वीकार्येत्युनयामः । बहुव्रीहौ ल. क्षणायाः समस्यमानानेकपदतत्सामानाधिकरण्यालोचनापेक्षाधिक्येन विलम्बितत्वान तेन द्रव्यविधिः स्यात् । किं तु गुणशन्देनैवेति ऋयसाधनद्रव्यनिवेशस्य पूर्वोत्तरपक्षयोः साम्याचदाक्षेपपूर्वपक्षस्य वाक्यीयद्रव्यनिवेशसिदान्तस्य घायोगादहुवीही शक्तयस्वीकारे अरुणाधिकरणारम्भासम्भव इत्यप्याहुः । अथैवं निषादस्थपत्याधिकरणोच्छेदापत्तिः । निषादः स्थपतिर्यस्येति बहुव्रीहिणा निषादस्वामके श्रुतिवृत्तः शन्दः क
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy