SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। २३७ वसानादित्यायन्यत्र प्राक् प्रपञ्चितम् । वक्ष्यते च अत एवार णाधिकणारम्भोप्युपपद्यते । अन्यथा पूर्वपक्षस्यैवासम्भवात्तद- सम्भवापत्तेः । तथाहि । किमरुणिमा वाक्यानित्वा प्रकरणे निवेश्यः किं वा क्रीणातिना सम्बध्य तदङ्गमेकहायन्यामिति संशये क्रीणातिना सम्बध्यमानस्तृतीयासंयोगात्करणकारकं स्यात् । न चामूर्तस्य तद्युक्तमिति नास्य क्रयसम्बन्ध इति ततः पृथग्भूतः प्रकरणे निविशतइति हि पूर्वः पक्षः । स चानुक्तिसम्भवः । समासशक्त्यस्वीकारे पिङ्गाक्ष्येकहायनीशब्दयोरपि पित्वाक्षित्वैकत्वहायनत्वादेर्वाच्यतया तेषामप्यमूर्तत्वात् क्रीणातौ करणत्वासम्भवेन क्रीणातिकरणस्यैतद्वाक्यादलाभादारुण्यस्य वाक्यभेदशङ्काया एवासम्भवात् । त्रिष्वपि लक्षितद्रव्यविध्यु. पपत्तो वाक्यभेदशङ्काया निर्बीजत्वाच । बहुव्रीह्योररुणशब्दस्य च लाक्षणिकद्रव्याभिधायकताया अविशिष्टत्वेन बहुव्रीह्योरेव द्र. व्यविधायकत्वं नारुणपदस्येत्यत्र विनिगमकासम्भवात् । वाक्यभेदेन प्रकरणे निवेशस्याप्यसम्भावितत्वाच्च । तथाहि । प्रकरणेप्यमूर्त्तत्वाक्रियाभिः कारकत्वाच द्रव्यैरपि : सम्बन्धोऽसं. म्भवी । अनुपात्तानि च द्रव्याणि कथं गुणेनानेन सम्बध्येरन् । न च तृतीयया प्राकरणिकानि करणद्रव्याण्यन्द्य गुणस्तस्परिच्छेदकत्वेन विधीयते न तु गुणस्यात्र तृतीयया करणत्वं येन द्रव्यसम्बन्धो न स्यात् । तृतीयया द्रव्याणामुपादानाच्च नानुपादानदोषोपीति वाच्यम् । नहि तृतीया करणद्रव्याभिधायिनी येन तया तेषामनुवादः स्यात् । शक्तय एवं निष्कृष्टा वि. भक्तिवाच्या इति मीमांसकसिद्धान्तात् । अथ प्रातिपदिकमेव गुणवचनमपि लक्षणया द्रव्यपरं तच्च तृतीयासंयोगात्करणम् । तथा च गुणविशिष्टं करणं प्रतीयते । तत्र करणतयावगतानि प्रक
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy