SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२६ वैयाकरणभूषणे स्तम् । घटादिपदेष्वपि धातुमत्यययोस्तत्सम्भवात् । तस्मादा. वश्यिकैव समुदायशक्तिरिति समुदायार्थ इति विभाव्यतां सू. रिभिः । वस्तुतस्तु अवयवानां शक्तिं लक्षणां वा ऽजानतामपि बालानां समुदायव्युत्पादने बोधः सर्वानुभवसिद्धः। अत एव तेषां समुदायार्थबोधेपि विना व्याकरणादिव्युत्पत्तिं पदविभागसामर्थ्याभावोपीत्यप्यनुभवसिद्धम् । न चैतेषां शक्तिभ्रमाद्बोध इवियुक्तम् । बोधकत्वस्याबाधेन तज्ज्ञानस्याभूमत्वात् । पदत. दो टितशक्तेभूमासम्भवस्यासकृदावेदितत्वात् । न चाज्ञातैव प्र. सेकपदलक्षणोपयुज्यतइति शंक्यम् । अगृहीतशक्तिकादप्यर्थोपस्थित्यापत्तेः । तीरादौ गङ्गासम्बन्धाग्रहवतो गङ्गायां घोष इ. त्यादौ बोधापत्तेश्च । तथा च प्रत्येकत्यज्ञानेपि बोधादावश्यिका समुदायशक्तिः । घटादिपदेष्वपीदमेव तत्साधकम् । अत एवं पङ्कजपदेपीत एव तत्स्वीकारः प्रकारान्तरासम्भवादित्युक्तपायम्। न च समुदायशक्त्यज्ञानदशायां लक्षणयापि बोधान्न शक्तिः। गङ्गादिपदानामपि तीरादौ शक्तिग्रहदशायां लक्षणया प्रवाहबोधकत्वाच्छक्तिसिध्यनापत्तेः । अत्रावयवेभ्य इव तीरादिपदेभ्योपि लक्षणया गङ्गाबोधदर्शनाच्च । अपि च । भाषासु संस्कृते च व्यवहारसाम्येपि शक्तत्वाशक्तत्वनिर्णयो विना व्याकरणकोशादिकमसम्भावित इति गृहीतप्रामाण्यात्तस्मात्समर्थः प. दविधिरिति सूत्रतद्भाष्यादि सामान्यरूपादनेकमन्यपदार्थे त्यादि विशेषाच्च समासशक्तिनिर्णयो दुर्वार एव । उक्तं च पराशरीयपुराणे । पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्य कृत्स्नं त्याज्यं न किञ्चनेति ॥ न च साधुत्वमात्रपरिच्छेदकत्वं शास्त्रस्योक्तं न तु शक्तिनिर्णायकत्वमिति वाच्यम् । भवद्रीत्या शक्तत्वस्यैव साधुत्वपर्य
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy