SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२१ খুবণ रुषकर्मधारययोगोंधविशेषाभावेनं षष्ठयाधन्तर्भावेण पूर्वावस्था कल्पनस्याप्यसम्भवात् । अत एव च न विवियमाणसमानार्थ विवरणमिति व्युत्पतिभशोपि । अन्यथा असमानार्थत्वे विवरणत्वं न स्यात् । तथात्वे वा शक्तिपरिच्छेदकत्वं न स्यात् । तस्माल्ल. क्षणाया असम्भवादावश्यिकैव समूहशक्तिरिति दिक् ॥ अथ घा ओदनः पचनीत्यादिवारणाय प्रातिपदिकार्थप्रकारकबोधमानं प्रति सुबजन्योपस्थितिहेतुर्याच्या । नीलं घटमानयेत्यादौ च प्रत्येकं विशेषणविशेष्ययोर्भावनायामेवान्वयः। पाणिको ऽभेदा. न्वयस्तु न शाब्दः । उक्तं हि भाष्ये । अथ वा कटोपि कर्म भीष्मादयोपि कर्माणीत्येव सिद्धमिति । एतदेवारुणाधिकरणे जैमिनीयैः परिष्कृतम् । अस्तु वा विशेषणविभक्तिरभेदार्या तद. प्युक्तम्भाष्ये । न चान्या उत्पद्यमाना तत्सम्बन्धमुत्सहते ववतुमिति कृत्वा द्वितीया भविष्यतीति । भिष्मादियुक्तकटसम्बधिकर्मत्वं प्रतिपाद्यम् । तत्र यथा कटशन्देन भीष्मत्वादीनामनभिधानात्तदभिधानाय भीष्मादिशब्दप्रयोगस्तथा द्वितीयापि तेभ्यो भविष्यति । नबन्यथा तद्विशिष्टत्वं कटस्य प्रतिपादयितुं शक्यते इति कैयटः । युक्तं चैतत् । एककार्यकारणभावकल्पने साघवात् । चैत्रो नास्तीत्यत्रापि प्रतियोगिताकपथमाद्वारैवा. न्वयः । तथा च चैत्र: पचति नीलो घटः स्तोकं पचतीत्यादौ प्रथमादेरभेदोर्थः । एवं च विभक्त्यर्थमद्वारीकृत्य प्रातिपदिकार्थस्यान्वयायोगात् । राजपुरुषः नीलोत्पलमित्यादावन्वयाय विशिष्टशक्तिः व्युत्पत्त्यन्तरं वा आदर्तव्यमिति दिक् ।। तदेतदभिप्रेत्योक्तम् । बहुव्युत्पत्तीति विभावयामः । अन्ये तु माप्तमुदकं यं, जा* यया प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहे यत्कर्मकमाप्तिकर्बुदक. म् । जायानिष्ठप्रेरणाविषयीभूतयत्कर्तृकप्रतिग्रहकर्मणी गन्धमाल्ये
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy