SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २२. वैयाकरणभूषणे थं स्यादिति वाच्यम् । पात्वर्यान्वये तथात्वेनादोषात् । मत एव पश्य नृत्यतितरां पचतिकल्पमित्यादौ समुदायशक्त्यभा. वेपि धात्वर्थभावनया सह धात्वाख्यातार्थइव तरबायर्थोप्यन्वेतीति दिक् । यच्च पुरुषपदमात्रस्य विशिष्टार्थक्षणास्थ का. र्यकारणभावः क्लुप्त इत्यादि । तम । समासे शक्तिग्रहादोधस्थले ऽन्वयानुरोधेनास्यापि क्लुप्तत्वादित्यास्तां विस्तरः । तस्मादुत्तरपदमात्रस्याप्रकृतित्वाम कर्मधारयद्वन्द्वयोस्तल्लक्षणायामपि विभक्त्यान्वयसम्भव इति दुवारा शक्तिः । एवं बहुव्रीहा. वपीति वयं विभावयामः । यद्वा । साधकान्तरमाह। अयेत्यादिना । व्युत्पत्तिः । अन्वयनियामकं तद्भङ्गो लक्षणापले स्यादित्यर्थः । अयं भावः । राजपुरुष इत्यादौ लक्षणायामपि न निहिः । तथाहि । राजपदादेः किंसम्बन्धिान लक्षणा सम्मन्धे था । नान्त्यः । ओदनः पचतीत्यत्रान्वयबोधापत्तिवारणायाभे. दातिरिक्तसंसर्गकप्रातिपदिकार्थप्रकारकबोधे विभक्तिजन्योपस्थितेहेतुत्वकल्पनात् । ओदनस्य च पाके द्वितीयादिविभक्त्यभावेन भेदेनान्वयासम्भवात् । एवमभेदसंसर्गकपातिपदिकार्थप्रकारको धे प्रातिपदिकादिजन्यैवोपस्थितिहेतुरभ्युपेया । नीलो घट इ. त्यादौ च विभक्तिः साधुत्वार्था । उक्तं बनभिहितसूत्रे भाष्ये । अथवा कट एवं कर्म तत्सामानाधिकरण्याद्रीष्मादिभ्यो द्वितीया भविष्यतीति । भीष्मादीनां स्वयमकर्मत्वेपि विशेष्यसम्बन्धि. न्यैव विभक्त्या भवितव्यम् । तदेकयोगक्षेमत्वात् । केवलानां च प्रातिपदिकानां परश्चेति नियमादप्रयोगाईत्वात् । ततो यथेश्वरसुहृदः स्वयं निर्धना भपि तदीयेनैव धनेन फलभाजः । एवं गुणा अपीति तु कैयटः । अथ देवदत्तो घटमानयतीत्यत्र देवदतघटयोः सत्यपि तात्पर्ये ऽभेदान्वयः कथं न जायते कारणस
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy