SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। भकित्वात् । प्रत्ययजन्योपस्थितिरेव हेतुरस्त्विति चेन्न । दधीयती ददातीत्यादौ दधो मतुबर्थे ऽन्वयापत्तेः । विहितत्वेन प्रत्ययो विशेषणीय इति चेन्न । समासेपि प्रत्येकपदोत्तरमविधानासल्लक्षणायामपि विभक्तचानन्वयापत्तेः । किं न । पङ्कजं प. श्वेत्यादौ पवादेः कर्मस्वप्रत्ययाय सा तथा हेतुहेतुमद्भावस्यैवासम्भवात् । अव्यवाहितोत्तरवर्तित्वं विभक्तिविशेषणं वाच्यमिति वेन । तां पश्य, आचार्यकल्पं पूजय, भक्ततरं शिवतमं प्रार्थये. त्यादी टाबादिव्यवहितविभक्त्यर्थानन्वयप्रसङ्गात् । प्रत्ययातिरिक्ताव्यवहितत्वं विशेषणमिति चेन्न । दण्डिमन्तमानयेत्यादौ दण्डादेः कर्मत्वान्वयावारणापत्तेः । गौरवाच्च । तथा च यथो. क्तमेव युक्तम् । प्रकृतित्वं तत्पर्याप्त्यधिकरणत्वमिति न दोष इ. स्युक्तम् । यदपि ताशकार्यकारणभावग्रहासम्भव इति । तम । यथा पितृत्वपुत्रत्वादरेननुगतत्वेपि स्वपितृभ्यः पिता दद्यादित्यादौ चैत्रपितृभ्यश्चैत्रो दद्यान्मैत्रपितृभ्यो मैत्रो दद्यादित्यादिसर्वोपसंहारेणान्वयबोधः । यथा वा दारत्वस्वत्वयत्वादेरननुगतत्वपि ऋतौ स्वदारान् गच्छेदेव, “ऋतौ नोपैति यो भार्यामनृतौ यश्च गच्छती"त्यादौ चैत्रीयतहारसम्बन्धितदृतौ चैत्रस्तान् दारानभिगच्छेत् चैत्रस्तहारीयतदनुकालीनगमनमकुर्वन्प्रत्यवतीत्यादिस्तथा बोधस्तथा तत्तनिरूपितप्रकृतित्वाननुगमपि प्रकृत्यर्थप्रकारकबोधं प्रतीत्यादिशब्दात्सवोपसंहारेण कार्यकारणभावाग्रहसम्भवात् । स्वत्वत्वपितृत्ववादीनामनुगमनेन तदेव स्वरूपसदुपलभणीकृत्य तदादिवच्छक्तिप्रहाद्, आकाङ्क्षावशाच्च विशिष्य पदार्थबोध इत्यपि तुल्यम्।प्रकृतित्वं स्वरूपसदनुगमकमादाय शक्तिग्रहः भाकांक्षावशात्कार्यकारणभावबोधकवाक्याद्विशिष्य तद्रह इत्यस्य सवचत्वात् । न चैवं धात्वर्थफलस्य तदर्थे एवान्वय एवं क
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy