SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे • तेर्हेतुत्वकल्पनात् । एवं चित्रगुः धवखदिरौ छिन्धीत्यादावपि द्रष्टव्यम् । तथा च क्लृप्त कार्यकारणभावादेवोपपत्तिरस्माकमिति लाघवम् । विशिष्टशक्तिपक्षे च तादृशबोधे राजपुरुषपदोत्तर विभक्त्युपस्थितिर्हेतुरिति कार्यकारणभावान्तर कल्पनायामतिगौरवापत्तेः । किं च । सामान्यतो हेतुहेतुमद्भावाभ्युपगमे स्तोकं पचति शोभनं पचतीत्यादौ नामार्थस्य साक्षाद्धात्वर्थेन्वयानापतिः । तस्याप्रत्ययार्थत्वात् । अपि च । प्रकृतित्वाननुगमेन सामान्यतो हेतुहेतुमद्भावग्रहासम्भव इति चेत् । उच्यते । सामान्यतो हेतुहेतुमद्भावानभ्युपगमे चक्रिणमहं पूजयामीत्यादौ चक्रस्येन्यर्थइवान्यत्राप्याकाङ्क्षासत्त्वादन्वयापत्तिः । न चानासन - त्वान्नान्यत्रान्वयः । नहि पदाव्यवधानमासात्तः । गिरिरभिमान् भुक्तं देवदत्तेनेति तात्पर्यग्रहवतो गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यत्राबोधप्रसङ्गात् । किं तु पदजन्यपदार्थापस्थितिमात्रम् । स च समूहालम्बनादिरूपा तुल्यैव । कथमन्यथा वज्रांकुशध्वज सरोरुहाञ्छनाढ्यं भगवतश्चरणारविन्दं भजेतेस्यादावासत्तिः । किं चैवं हेतुहेतुमद्भावानुपगमे का तण्डुलः पचति रामो वाणो हतो वालीत्यादौ करणत्वकर्मस्वकर्तृत्वादिसम्बन्धेन काष्ठबाणतण्डुल रामादेः पाकहननादिक्रियास्वन्वयप्रसङ्गः । कर्मत्वादिविशेष्यकबोधे एव द्वितीयादिजन्योपस्थितेर्हेतुत्वात् । अत्र कर्मत्वादेरविशेष्यतया द्वितीयाद्यभावेप्यक्षतेः । अत एव स्तोकं पचतीत्यादौ तव तदन्वयोप्युपपद्यते । अस्मन्मते चाभेदे कर्मग्रेव चेयं द्वितीयेति धात्वर्थनिर्णये प्रपञ्चितम् । नन्वभेदातिरिक्तसंसर्गेण नामार्थप्रकार कशाब्दबोधं प्रति तदुत्तरसार्थकविभक्तिजन्योपस्थितिर्हेतुरिति कार्यकारणभावादेव नायं दोष इति चैन | दण्डिनं चक्रिणं पश्येत्यादौ व्यभिचारात् । इनादेरवि २१८
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy