SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः । २१७ एवं हि गामुच्चारयेत्यादौ शब्दस्य स्वपरतायां ळक्षणेति सिंदाम्तहान्यापतेः । घटं पश्येत्यादौ शब्दात्समवायेनाकाशोपस्थितौ विभक्त्यर्थाभ्वयापतेश्च । न च सति तात्पर्ये इष्टापत्तिः । वृत्त्युच्छेदापत्तेः । तस्माद्वत्या प्रकृत्युपस्थाप्यत्वं वक्तव्यम् । तः था चावश्यिकैन समूहशक्तिः । अथ प्रत्ययप्राग्वर्तिपदजन्योप स्थितिविशेष्यत्वं प्रकृत्यर्थत्वम् । तच्च द्वन्द्वादावुभयो, व्ययीभावे पूर्वपदस्येति चेन्न । चक्रिणं पश्येत्यादौ चक्रेतिप्रसङ्गात् । गा मानयति कृष्णो दण्डेनेत्यत्र कृष्णे करणत्वान्वयापत्तेश्च । बपटुः सर्वक इत्यादावव्याप्तेः । इयद्दधीयती स्त्री ददातीत्यादावतिप्रसङ्गश्च । यदुत्तरं प्रत्ययो विहितस्तस्त्वे सतीति वाच्य मिति चे, दिहापि तदभावस्योक्तत्वात् । अथ समस्यमानपदागतस्वार्थबोधकत्वमेव वाच्यं तथैव व्युत्पत्यन्तरकल्पनादिति । मैबम् । पङ्कजं पश्य राजपुरुषमानयेत्यादौ पङ्कादौ कर्मत्वायन्वयापत्तेः । अथ प्रकृत्यर्थप्रकार कशाब्दबोधं प्रति प्रत्ययजन्योपस्थितिर्हेतुरिति सामान्यतो न हेतुहेतुमद्भावः । मानाभावात् । घटः कर्मत्वमित्यादौ बोधस्य तथा व्युत्पत्तिग्रहशालिनामिष्टत्वात् । अनिष्टत्वपि घटप्रकारककर्मत्वविशेष्यकशाब्दबुद्धिं प्रति घटार्थकपदोत्तर कर्मत्ववाचकविभक्तिजन्योपस्थितिर्हेतुरिति बि शिष्यैव सोस्तु न तु सामान्यतः तत्प्रत्ययविधानावाधित्वरूपस्य प्रकृतित्वस्य कार्यतावच्छेदककोटिप्रविष्टस्याननुगतत्त्वात् । अनुगमे च दण्डेन गामभ्याजेत्यत्र दण्डे कर्मत्वस्य गवि करणत्व - स्यान्वयस्य दुर्वारत्वापत्तेः । अस्मद्रीत्या तु नायं दोषः । एवं च समासे उत्तरपदलक्षणायां न विभक्तयर्थान्वयानुपपतिः । पुरुषमानयेत्यत्र पुरुषपदस्य राजावशिष्टपुरुषे तात्पर्ये सति विशिष्टकर्मत्वबोधेन तादृशबोधे पुरुषपदो तरकर्मत्वबोधकविभक्त्युपस्थि · 4
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy