SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे त्वात् । अथ प्रकृतित्वं न प्रकृतितापर्याप्त्यधिकरणत्वम् । कि तु तदाश्रयत्वमात्रम् । तत्समूहे प्रत्येकमवयवेष्वपीति चेन्न । प जमानय दण्डिनं छिन्धि । शूलिनं पश्येत्यादौ सत्यपि तात्पये विना लक्षणां पदण्डशूलानामानयनच्छेदनदर्शनकर्मतयान्वयबोधप्रसङ्गात् । अपटानानयेत्यत्र पटे कर्मत्वाद्यन्वयापत्तेश्च । न च दण्डादीनां विशेषणतया न तत्रान्वयः । वन्हिमान्धूमादि. त्यत्र पञ्चम्यर्थज्ञानज्ञाप्यत्वस्य वन्हावनन्वयापत्तेः । ऋदस्य राज्ञः पुरुषः तण्डुलं पचतीत्यादौ राजादीनामिव स्वातन्त्र्याबाधाच्च । यन्तु प्रत्ययाव्यवहितपूर्वपदत्वमेव प्रकृतित्वम् । तद. न्वितस्वार्थबोधकत्वं च पूर्वपदार्थप्रधानादव्ययीभावादुभयपदा. र्थप्रधानद्वन्द्वादपिप्परयादितत्पुरुषाच्चान्यत्र नियतमिति तदनुरोधादुत्तरपदे एव बहुग्रीही लक्षणा । अस्तु वा सर्वत्रैवायं नियमः । भव्ययीभावद्वन्द्वादावुत्तरपदलक्षणयैव शक्यानिर्वाहत्वादिति । तत्तुच्छम् । अव्यवहितपूर्वपदत्वस्य बहुपटुः सर्वक इत्यादौ पद्धसर्वादिशब्देष्वव्याप्त्या दधी इयति ददातीति बहुप१र्ददातीत्यादौ दम्यादावतिव्याप्त्या च प्रकृतिस्वासम्भवात् । विभाषासुपोबहुचपुरस्तात्तु अव्ययसर्वनानामकच्याकटोति सूत्राभ्यां तयोरादौ मध्ये च विधानेनान्ते तद. सम्भवात् । एवं व्यतिसे इत्यादावुपसर्गस्यापि तिप्रकृतित्वापतिः । किं , नव्यरीत्या द्वन्द्वन्यायेन लक्षणाविरहिणि द्विका इति बहुव्रीही पूर्वपदार्थे विभक्तयर्यान्वयो दुरुपपाद एव । तस्मात्मत्ययविधानावधित्वमेव प्रकृतित्वम् । तच्च न समासादावुत्तरपदमावस्यति तल्लक्षणयामपि प्रत्ययार्थान्वयानुपपत्ति. वारेति । यदपि प्रकृत्यर्थत्वं तजन्यज्ञानविषयत्वमात्रं तचात्राविरुद्धामिति । तम । पङ्कजमित्यादौ पङ्केतिप्रसङ्गात् । किं च ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy