________________
समासशक्तिनिर्णयः। तेः । क्याप्यनुशासनादर्थ निर्णयो न स्यात् । किं चैवं सहविवक्षाविरहेपि भेरीपटहं वादयोति स्यात् । वस्तुतश्चास्याव्यावर्तकतया चार्थ इत्यस्य वैयापत्तेश्च । न च कर्मधारयवारणार्थ तत् । एवमपि त्वदुक्तरीत्या ग्रामं गत इत्यादिद्वितीया. तत्पुरुषादौ द्वन्दप्रसङ्गस्य दुर्वारत्वात् । न च द्वितत्यातत्पुरुषेग बाधः । कर्मधारयेपि तथात्वाविरोधात् । चार्थस्य वाच्यत्वे च तदविवक्षणान द्वन्द्व इति तद्वाचित्वमवश्यं वाच्यम् । अतो न त. द्वाचकचकारप्रयोगः । उक्तार्थानामप्रयोग इति भाष्यात् । किं च धवप्रकारकशब्दबुद्धिं प्रति तदुपस्थापकपदाव्यवहितोत्तरवत्ति विभक्तिजन्योपस्थितिहेतुरित्यावश्यकम् । अन्यथा धववन्तमानयेत्यादौ धवादेः कर्मत्वादिप्रत्ययापत्तेः । तथा च धवखदिरौ छिन्धीत्यादौ न धवे तदन्वयः स्यादिति । नन्वस्तु द्वन्द्वादी लक्षणा समासान्तरवत् । परं तूत्तरपदस्यैवेति नायं दोषः । तस्यैव सर्वत्र प्रातिपदिकसंज्ञाप्यस्तु । नातः प्रागुक्तोपि दोषः । विशिष्टस्याप्रातिपदिकत्वपि समासोत्तरं प्रत्ययसम्भवात् । विशिष्टलक्षणयार्थोपस्थितावुद्देश्यविधेयभावेनान्वयासम्भवाचति चे. त् । अत्रोच्यते । उत्तरपदमात्रस्य प्रत्ययान्तत्वेन प्रातिपदिकसंज्ञाया एवासम्भवः, । न च तल्लोपोत्तरं पुनः सेति वाच्यम् । पूर्व प्रातिपदिकसंज्ञां विना लोपासम्भवात् । न च राजन् ङस् पुरुष सु इत्यत्र सत्यां समाससंज्ञायां प्रातिपदिकसंज्ञोत्तरं पू. वंसुन्निवृत्तौ पुनरुत्तरपदमात्रस्य सा संशति वाच्यम् । विशिष्टस्य समाससंज्ञायामप्यर्थवत्वाभावेन प्रातिपदिकत्वासम्भवात् । उत्तरपदस्य संज्ञायाः प्रागेव सिद्धत्वेन पुनस्तस्या व्यर्थत्वाच्च । पुनःप्रातिपदिकसंज्ञायाःप्रत्ययान्तत्वेनासम्भवाच्च । लुप्तेपि पूर्वतने प्रत्यये प्रत्ययलक्षणस्य दुर्वारत्वात् । अत एव प्रथमत एवात्तर