SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१२ वैयाकरणभूषणे चमुष्णीषं चोदिश्य साप्तदश्यत्रित्वलौहित्यानां विधिन स्यात् । समासे उद्देश्यविधेयभावाभावादिति चेन्न । "विधाने चानुवादे च यागः करणमिष्यते । तत्समीपे तृतीयान्तस्तद्वाचित्वं न मु. ऽवतीतिस्वीकारेपि वीहिभिर्यजेतेत्यादौ द्रव्यावधिवद्यागस्योद्दे. श्यत्ववदुपपत्तेः । अत एव यद्यपि चतुरवत्ती यजमानः पञ्चावत्व वपा कार्येत्यत्रावत्तानुवादेन पञ्चत्वविधानं व्याख्यातम् । अनया च रीत्या वषट्कर्तुः प्रथमभक्ष इत्यत्रापि भक्षानुवादेन प्राथम्यविधानं कुतो नेति तु समं समासेप्युद्देश्यविधेयभावस्वीकारे। तचे क्रियतइत्यादौ भाग्नानुवादेनैव त्रित्वविधानम् । तच्च ऋगाश्रितमेवोपस्थितमिति तथैव लभ्यते । एवमन्यत्रेत्यपि समम्भक्षान्तरविधानायापि विध्यध्याहारेण भावनोद्देशसं. भवादिति दिक । एतेन कर्मधारये तु न शक्तिर्न वा लक्षणति परास्तम् ॥ १२ ॥ यत्तु द्वन्द्वे ऽपि न शक्तिर्न वा लक्षणति । तदापि नेत्याह ।। चकारादिनिषेधोथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः३३ निषेध इत्यन्तेनान्वयः । आदिर्दूषणान्तरार्थो भिषक्रमश्च । चकारोनिषेधादिरित्यर्थः । अयं भावः । रामकृष्णावानयति द्वन्द्वस्य विवरणे नकारादिः प्रयुज्यते न समासे । न च . तौ चकाराद्यर्थो नास्तीति वक्तुं शक्यम् । तथा सति तस्य विवरणत्वं न स्यात् । समानार्थकसमस्यमानपदसमूहस्यैव वि. ‘प्रहत्वात् । चकाराद्यर्थबोधस्य सर्वसिद्धत्वाच्च । चार्थेद्वन्द्व इत्यादिना तत्तदर्थएव समासानुशासनाच्च । न च वस्तुतश्चार्षे सति द्वन्द इत्यादिस्तदर्थः । भू सत्तायामित्यत्रापि तथात्वाप
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy