SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ पैसाकरणभूषणे पनैकवचने इत्येतेषामेकवाक्यतया विधानेन क रेकरवेभिषेक लकारैकवचनं तिवादि प्रयोक्तव्यमित्यर्थपर्यवसानाकर्तृवाच्या त्वं न सूत्रादायाति, किंतु तत्संख्याया एवेति चेन्मैवम् । द्विवचनादिसंज्ञा ह्यादेशनिष्ठा, ततश्च तद्विधिना द्वयेकयोरित्यस्यैकवाक्यता। न च तत्र कर्तरीत्यस्ति यद द्वित्वादिविशेषणतया कथं चिद्योज्येत । ननु लविधितिबादिविध्योरप्येकवाक्यतास्तीति चेत्, तर्हि इयं वाक्यैकवाक्यता न तु पदैकवाक्यता । आ. देशविधेर्लविधिलभ्यलकारानुवादेन प्रवृत्तेः । लविधी कर्वग्रहणम् । स च द्विवचनादिसंज्ञाविनिर्मुक्त एवेति । तस्माद्वाक्यनिष्पत्त्यनन्तरं तेनैकवाक्यता । लः कर्मणीति वाक्यं चार्य वि. ना ऽनिष्पन्न यमर्थमादाय निष्पद्यते स एव वाच्य इति कर्तु। चीच्यत्वं दुष्परिहरमिति वदन्ति । स्फुटमन्यन्मनोरमायाम् । वस्तुतस्तु लः कर्मणीत्यस्य द्वयकयोरित्यनेनैकवाक्यत्वे लकार: सङ्ख्यावाचको निरर्थको वा स्यात् । न चैवं युक्तम् । एवं हि तिबादिवच्छानचोपि कर्तृसङ्ख्या वाच्या स्थान स्याच्य की, तिबादिवच्छानजादीनामपि लादेशत्वात् । अथ करेंरिकृदित्यत एव तत्र कर्ता वाच्य इति चेन्न । तेन शग्यमाने आस्यमाने चायं गत इत्यादौ भावे क्रियमाण इति कर्मणि शानचो दौर्लभ्यापत्तेः । विधायकाभावात् । अथ कतैव वारयः, कर्मभावादौ च शानचो लक्षणेति चेन्न । कर्तरीति व्याकरण: स्थार्थनियामकस्यातिक्रमेण स्वेच्छामात्रेण लक्षणायामसाधुता. पत्तेर्वक्ष्यमाणत्वात् । न च लटः शतृशानचावित्यस्यात्मनेपद विधायकैः सममेकवाक्यतया भावकर्मणोरित्यनेनेष्टसिद्धिः । सकर्मकेभ्योप्येवं सति भावे शानजापतेः । अस्माकं पुनर्भावे चाकर्मकेभ्य इत्युक्तत्वान्न दोषः ।' किं चैकवाक्यतया. कर्मका
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy