________________
समासशक्ति निर्णयः ।
२०९.
प्रार्थ इति नृसिंहाश्रमैर्विवरण टिप्पणतत्त्वविवेक योनिर्णीतम् । इदं पुनरिहाबधेयम् । ज्योतिष्टोमः स्वर्गसाधनमित्यत्र साध्यत्वेनोपस्थितिं विनापि यथा साध्यसाधनभावबोधस्तथात्राप्यनुवादादिदोषपरीहारायाध्याहृतेन कर्तव्येतिपदेनेष्टसाधनत्वार्थकेन साध्यसाधनभावबोधसम्भवान्मास्तु साध्यावस्थज्ञाने लक्षणा । तच्च साघनत्वं ज्ञाननिरूपितमेत्र । धातोर्लक्षणाकल्पकस्यैव तत्र मानत्वात् । कर्त्तव्य इत्यत्र तव्यप्रत्ययो ऽर्हार्थे भविष्यतीति चेचार्हं श्रुतिसमानार्थत्वहानिः स्यात् । अत एव प्रत्ययानां प्रकृत्यर्थगतेत्यादि व्युत्पत्तेस्तव्यार्थः साधनत्वमपि कृतावन्वियान विचारइति परास्तम् । तथा च श्रुतिसमानार्थत्वायेति वा अस ङ्गतं स्यादिति दिक् । तस्मादविद्यानिवर्तकतावच्छेदकधर्मविशिष्टज्ञानस्यैव विचाररूपश्रवणसाध्यत्वात्तादृगर्थकं साध्यावस्थपदमिति तत्त्वमित्यास्तां प्रकृतानुपयुक्त विचार इति दिक् । तथा च प्रातिपदिकसंज्ञारूपं कार्यमेव शक्ति साधयति धूम इव बन्हि मिति तात्पर्यार्थ इति युक्तं पश्यामः । अथ वा वृत्तिधर्माणामुद्देइयविषयभावेनान्वयाभावादीनामित्यर्थः । अयं भावः । नीळमुश्पलं पण्डितो ब्राह्मण इत्यसमासइव नीलोत्पलं पण्डितब्राह्मण इत्यादौ नोद्देश्यविधेयभावेनान्वय इति सर्वसिद्धम् । तथा वषकर्तुः प्रथमभक्ष इत्यत्र भक्षानुवादेन प्राप्यविधानापत्तिमाशङ्क्य प्रथमभक्ष इति समस्तमेकं पदं तत्र चैकप्रसरत्वान्नैकांशेन भक्षणमुद्दिश्य प्राथम्यविधानं युक्तमिति भक्षान्तरविधिरिति वषट्काराच्च भक्षयेदिति शेषलक्षणे । अङ्गैः स्विष्टकृतं यजतीत्यत्र पशौ चोदकमाप्तः स्विष्टकृत्प्रधान हवियों हृदयादिभ्य एकादशभ्योपि कर्त्तव्यत्वेन प्राप्त इति व्यङ्गैरिति वचनमङ्गानुवादेन त्रित्वविधानार्थमित्याशङ्क्य एक हीदं समासपदं तत्सर्वमुदेशकमुपादा
२७