SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०८ वैयाकरणभूषणे लक्ष्यते । सा च छत्रिण इतिवत्संवृदाये एवेति वेदान्त भूषण केतः । एवं च वाक्यलक्षणापक्षे एवैतत्सङ्गच्छतइति स एव न्याव्यस्तथा सति प्रकृतेपि लक्षणयार्थवत्वात्प्रातिपदिकत्वं नानुपपद्ममिति चेन्न । शक्यसम्बन्धस्यैव लक्षणात्वात् । अन्यथा ऽपभ्रंशेषि लक्षणापतेः । तज्ज्ञाप्यस्य सप्त्वात् । किं चैवमपि प्रत्येकं पद निगमकाभावात् पदेषु भिन्ना लक्षणा वाक्ये चापरति गौरवं स्यात् । शक्यसम्बन्धपक्षेणाविरहाल्लाघवमिति । वस्तुतस्त्वेवं सति पदघटितपदानां चानुपूर्वी लक्षकतावच्छेदिका वाच्यति गौरवम् । अस्मन्मते च वाक्ये तद्विरहात्पदानां सा नावच्छेदिकति लाघवम् । किं च । ज्ञाप्यसम्बन्धइत्यत्र तु त्या ज्ञापकत्वमर्थबोधजनकज्ञानविषयत्वमात्रं वा प्रविष्टम् । आधे न वाक्यलक्षणा शक्तयभावात् । अन्त्ये प्रत्येकं वर्णनामपर्थ वापत विभक्तयाद्युत्पत्तिः स्यात् । अपि चैवमेतज्ञ ज्ञाप्यसम्बन्धीदमिति ज्ञानजन्योपस्थितिरेव लक्षणाजन्यति पर्यवसितम् । तथा च समवायादिना घटपदज्ञाप्याकासम्बन्धिनोप्युपस्थितस्य शाब्दबोधविषयतापत्तिरिति ध्येयम् । एवं चैतन्मूलकाः पूर्वोक्ता ग्रन्थाः श्लथा एव । एवं च तद्ब्रह्म विजिज्ञासस्वेत्यत्रापि न समुदायलक्षणा । यसु छत्रिण इत्यत्रेव समुदायलक्षणेति । तदश्रद्धेयम् । विषमत्वादुपन्यासस्य । तथाहि । युगपद्धतियाभ्युपगमे छत्राभावे लक्षणया छत्रिणस्तदभाववन्तश्च गच्छन्तीति बोधोपपत्तेः । तदस्वीकारे च छत्रविशिष्टछत्राभावे लक्षणासम्भवात् । अत एaterतो ब्रह्मजिज्ञासेत्यत्र ज्ञाधातोः साध्यावस्थापनज्ञाने लक्षणा सनश्च विचारे इति स्वीकृत्य श्रोतव्य इत्यादिश्रुतिसमानार्थत्वाय कर्त्तव्येतिपदं वाध्याहृत्य ज्ञानाय विचारः कर्त्तव्य इति सू
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy