SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ समासकिनिर्णयः। २०७ निन्न गभीरं गम्भीरमिति कोशागम्भीरादिषदानामपि द्रव्यवाचित्वेन तुस्यत्वात् । वस्तुतः शूरोदारपदानामिवैषामपि गुणमात्र प्रयोगादर्शनात् द्रष्टष्पाचित्वमेव । अन्यथा नीलादि. पदानामिव गुणे प्रयोगप्रसङ्गादिति ध्येयम् । नापि प्रत्ययानां मकृत्यर्थगनेत्यादिव्युत्पत्तेर्नदीपदे एव सा न मभीरपदे, तदुखए। विभक्त साधुत्वमात्रार्थत्वादिति वाच्यम् । अभेदार्थकताया नैयायिकैररुणान्यायान्मीमांसकैश्चार्थवत्त्वस्वीकारात् । अर्थसा. धुत्वे सम्भत्रति शन्दसाधुत्वस्यान्याय्यत्वाच । गभीरपदे ल. क्षणायां तस्यैव विशेष्यत्वसम्भवाच्च । नापि विनिममनाविरहास्पदद्वयोपि विशिष्टलक्षणा । वाक्ये एकलक्षणायां तस्मात्समु. दायएव सा । अत एव सर्वत्र वाक्येन वाक्यार्थो लक्ष्यतहति भट्टपादवाचस्पतिमिश्रकल्पतरुप्रभृतिभिर्निर्णीतम् । उक्तं च "वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेह च स्थित"मित्ति । अत्त एव पाभाकरा अप्यर्थवादवाक्ये प्राशस्त्यलक्षणां मेनिरे । - दुक्तं मयविवेकटीकायां वरदराजेन । यद्यप्येकैकपदसम्बन्धिता पाशस्त्ये नास्ति एकैकपदादप्रतीतेः । तथापि समुदायसम्बन्धितास्त्येव । न च समुदायसम्बन्धिनि लक्षणा न युक्ता । स. म्बन्धानुपपत्योर्लक्षणाहेत्वोः समत्वादिति । अत एवाथातो ब्रह्मजिज्ञासेत्यत्र जिज्ञासेत्यत्र जिज्ञासाशन्दनान्ततिं विचारमुपलक्ष्यति विवरणाचार्यैरुक्तम् । अत एव यज्ञायुधिशब्देन यजमानो लक्ष्यतइति संक्षेपश्शारीरककृतोक्तम् । यज्ञायुपिशम्दानशासाशब्दयोः मुबन्तत्वलक्षणपदत्वपि शक्तत्वलक्षणापदत्वामाबेन शक्यसम्बन्धरूपलक्षणाया असम्भवात् । अत एव सत्सं बानमनन्तं ब्रह्मेत्यत्र वाक्ये एव लक्षणेति वेदान्तैकदेशिनः । अत एव तद् ब्रह्म विजिज्ञासखति श्रुतौ जिज्ञासाशन्देन विचारो
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy