SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१० वैयाकरणभूषणे यकं वा युक्तम् । उत्तरार्दन्तूदिश्य पूर्वाः विधीयमाने प्रसरभे. दात्सामर्थ्यविघातात्समासो न स्यादिति त्रित्वविशिष्टानान्तरविधिरिति बाधलक्षणे च व्यवस्थितमेकार्थीभावानभ्युपगमे ऽसतं स्यात् । सति च तस्मिन् घटपदे घटघटत्वयोरिच विशिष्टशक्त्यैव त्रित्वविशिष्टांगोपस्थितौ न वाक्यार्थरूप उद्देश्यविधेयभावादिना ऽन्बयो युज्यते । न चान्यतरपदे विशिष्टार्थलक्षणयेव नायं दोष इति वाच्यम् । अग्रिमकारिकायां तदसम्भवस्य व्युत्पादयिष्यमाणत्वात् । न च यत्तियोगप्राथम्याधुद्देश्यताबोधकस्य तद्वत्तयोगपाश्चात्यादिविधेयताबोधकस्य चाभावान तथे. ति वाच्यम् । प्रथमो भक्षः पण्डितो ब्राह्मण इत्यत्रापि सति तात्पर्य भक्षब्राह्मणाधुद्देश्यकप्राथम्यपाण्डित्यादिविधेयकबोध. दर्शनेन तस्य व्यभिचारित्वात् । किं तु भक्षब्राह्मणायुद्देश्यकमा. थम्यपाण्डित्यादिविधेयकशाब्दबोधे भक्षायुपस्थापकपदसमभिव्याहतप्राथम्यवाचकपदोपस्थितिरेव नियामिका । इत्यमेव सर्व त्रोद्देश्यविधेयभावस्थले व्यवस्था । सा च निर्बाधैव । न च तवाप्येवं तथान्वयबोधापत्तिः । इत एव जहत्स्वार्थतास्वीकारात् । न च ममापि तथैव निस्तारः । तथासति राजादिबोधाय समुदायशक्ति विना तस्या ऽसम्भवेन तदुपपादकत्वेन च शक्तिीकारापत्ताविष्टसिद्धेः । न चोद्देश्यविधेयभावावच्छि. भविषयतया शाब्दबोधं प्रत्यसमस्तपदजन्योपस्थितिहेतुरित्येव कार्यकारणभावोस्त्विति वाच्यम् । दामोदरः पूज्यः राजपुरुषः सुन्दरः प्रथमभक्षः कर्तव्यः पीतवासाश्चतुर्भुजः गंगाधरः स. घेश्वरः राजपुरुषश्चित्रगुः 'यदि रथन्तरसामा सोमः स्यादैन्द्रवापवाग्रान् गृह्णीया' दित्यादौ तथा बोधानापत्तेः । प्रकारान्तरस्य चत्वात् । न च भक्षस्याङ्गनां चोद्देश्यताबोधकद्वितीयादेः प्रा.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy