SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। २०५ युदासनवोपपत्तौ प्रत्ययपदमावर्त्य प्रत्ययान्तपयुदासोपि नका.. यः । उक्तनियमेनैव सर्वातिप्रसङ्गवारणादिति वदन्ति । तन्न । किपन्तधातूनां किलोपे सत्यधातुरिति पर्युदासात् इयान् इयदित्यादावप्रत्यय इति पर्युदासात्पातिपदिकसंज्ञानापत्तेः। विधायकाभावात् । तदर्थ कृत्तद्धितग्रहणस्य विध्यर्थत्वे प्रागुक्तष्वतिमा सङ्गो दुर्वारः। अथ तिप्तमझीत्यारभ्य ब्योः सुबिति तिप्प्रत्याहारो भाष्यसिद्धस्तमादायातिप्प्रातिपदिकमित्येव सूज्यतां कृतं प्रत्ययतदन्तमात्रपर्युदासं विधाय कृत्तद्धितग्रहणेन । समासग्रहहणं च नियामार्थमास्तां, तथा न समासस्यापि संज्ञा नानुपपन्नेति चेन्न । एवमपि प्रत्येकं वर्णानां केवलकृत्तादितधातूनां घ संज्ञावारणायार्थवत्त्वादेरवश्यं प्रवेश्यत्वेन समासासंग्रहस्य । गौरवस्य च त्वन्मते दुष्परिहरत्वात्। यत्तु समासान्तर्गतप्रत्येकपदानामर्थवन्त्वमादाय समुदायस्य संज्ञा स्यादेव । अन्यथा टिघुमादिषु समुदायशक्तयस्वीकारेण समुदायस्य सा न स्यात् । तत्रापि शक्तिस्वीकारे साधुत्वापत्तौ तेषां साध्वसाधुबहिष्कारा. सम्भवादिति । तन्तुच्छम् । तथा सति गौरवः पुरुषो हस्तीत्या. दौ समुदाये धनं वनमित्यादौ च प्रत्येकं प्रातिपदिकत्वापत्तिः । तथा च सुपोधातुप्रातिपदिकयोरिति विभक्तिलापस्य नलोपः प्रातिपदिकान्तस्यति नलोपस्य चापत्तेः । देवदत्तादिसंज्ञाशब्देष्विव टिघुभादिष्वपि सांकेतिकशक्तयार्थवन्त्वास्मातिपदिकत्वसम्भवाद् दृष्टान्तासिद्धेश्च । अनादित्वरूपसाधुत्वमपि टिघुमादीनां सादित्वपक्षे नेति तत्पक्ष एव तेपां साध्वसाधुबहिष्कारस्तेषापनादित्वपक्षे अनपभ्रष्टत्वादिलक्षणान्तरपक्षे वा तेषामामि साधुत्वं माध्यादिसिद्धमेवेत्यलं दन्ध्रणेन। अधार्थप्रतीतिजनकज्ञानविषयशन्दत्वमर्थवत्त्वं वाच्यम्, त.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy