SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०४ यांकरणभूषणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया तस्याप्रत्ययान्तत्वात् । तथापि चैतदुभयवारणार्थ वाक्पस्य नेत्यपि वचनं कर्तव्यम् । किं च कृत्तदितपदाभ्यां तदन्तस्यैव प्रातिप. दिकसंत्रा विधीयते न तद्विशिष्टमात्रस्य । पचतकीतिमध्यस्थिततद्धितस्याप्यापत्तेः । औपगव इत्यादिसुबन्तानामापत्तेश्च । पूर्वसूत्रे प्रत्ययान्तस्य पर्युदासे प्राप्त तद्विशिष्टस्य प्रतिप्रसव इ. त्यस्यैव पर्यवसनत्वात् । तथा च बहुपटव इत्यादौ तदितान्तस्वाभावात्सा न स्यात् । न च पूर्व विद्यमानजसैत्र रूपसि. हेर्नैव पुनः प्रातिपदिकसंज्ञेति वाच्यम् । स्वरभेदार्थ तत्स्वीकारात्। तस्मात्तत्सिद्धयर्थं वचनान्तरारम्भापत्तिरिति भावः । तस्मादिति । तथा च समासस्य बहुपटव इत्यादेश्वार्थवत्त्वादर्थवसूत्रेणैव सेति मूलकेनोपदंशमित्यादौ संज्ञावारणार्थ समासग्रहणं वाक्यस्य चेतहि समासस्यैवेति नियमार्थकमिति भावः । यत्तु वृत्तिमात्रे एवैकार्थीभावात्सुबन्ततिङन्तयोस्तदभावादर्थवत्सूत्रे प्र. त्ययान्तपर्युदासस्य कृत्तद्धितसमासाश्चेति सूत्रस्य चारम्भ एवा. युक्त इत्युक्तम् । यच्चार्थवत्सूत्रेर्थवत्वमर्थप्रतीत्यनुकूलवृत्तिमत्त्व. मात्रम् । तच समासादेविशिष्टस्यातिरिक्तत्वाभावात्पदसमुदायरूपत्वाच्च पदनिष्ठवृत्याश्रयत्वमादायैव शक्तसमुदायस्यापि मुलभमेव । तथा च धातुप्रत्ययार्थमादायैव कृदन्तादेरप्यर्थवसूत्रेणैव प्रातिपदिकसंज्ञासिद्धिः । न चैवं पचति रामः अजा छागी गामानयेत्यादेरपि प्रकृतिप्रत्ययार्थमादायार्थवत्त्वात्प्राति. पदिकत्वापत्तिः । कृत्तद्धितसमासाश्चेति सम्पूर्णसूत्रस्य नियमार्थतया सर्वधारणात् । तथाहि । यदि प्रकृतिप्रत्ययान्तसमुदा. यस्य संज्ञा तार्ह कृत्तद्धितान्तयोरेव । पदसमुदायस्य चेत्ताई स. मासस्यवेत्येवं नियमः कल्पनीयः । एवं चार्थवत्सूत्रे धातुपत्लयप.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy