________________
समासक्तिनिर्णयः ।
२०
पित्वर्थः । तथाहि । राजपुरुषश्चित्रमुरित्यादौ प्रातिपदिकसंशासुनुत्पत्यादिकं सर्वसिद्धम् । तच्च शक्तिलक्षणान्यतरसम्ब म्वेनार्थवत्त्वाभावादर्थवदधातुरित्यस्याप्रवृत्तेर्न सम्भवति । न कसद्धितसमासाश्चेत्यतस्तेषां प्रातिपदिकसंज्ञेति वाच्यम् । त त्राप्यर्थवद्धहणानुवृत्तेरावश्यकत्वात् । अधातुरिति पर्युदासादेव पूर्वसूत्रेर्ववत्त्वसिद्धावर्थवद्भहणानर्थक्यात् । उत्तरसूत्रे तदन्यग्रहणार्थ तदावश्यकत्वाच्च । न चैवमनुवृत्तस्यार्थवद्ग्रहणस्य ब्र दन्तत्वसिद्धचर्य कृत्तद्वितयोरेवान्वयोस्तु न समासेपि फलाभावादिति वाच्यम् । निराकांक्षतया तयोरेवान्वयासम्भवात् । एकपदार्थतावच्छेदकावच्छिन्नएवापरपदार्थान्वयस्य साकांक्षत्वात् । अन्ययैतौ देवदत्तयज्ञदत्त पण्डितौ इत्यस्यान्यतरस्मिनपण्डिते पळाशे छेदनानन्वये धवखदिरपलाशांच्छिन्धीत्यादेव निराकांक्षस्वानापत्तेः । न चैवमप्यसूर्यपश्मा इत्यादाव समर्थस मासे ऽर्थवत्वाभावात्प्रातिपदिकसंज्ञा न स्यादिति वाच्यम् । तत्र तस्य समासस्य तावदर्थे शक्तावनुपपत्त्यभावेनार्थवत्सूत्रेणैव तत्सम्भवात् । उक्तं च समर्थसूत्रे कैयटेन । “असमर्थ समासेपि क्रियायामुभयोः सन्निपातादेकार्थीभावस्तद् द्वारकोस्त्येचे" ति शशशृङ्गादिपदे पुनर्विशकलित प्रसिद्धं शशशृङ्गादिकमारोपितसम्बन्धे शक्यमतोर्थवत्सूत्रादेव सेति ध्येयम् । तस्मान्न समासग्रहणात्सा । किं चैवं कृतद्धितपदयोः समासग्रहणस्य च विध्यर्थत्वे मूलकोनोपदंशमित्यादौ प्रातिपदिकत्वापतिः । न च समुदायोत्तरं न कत्मत्यागमो ऽवो न तत्कृदन्तमिति वाच्यम् । कृद्रग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति परिभाषया विशिष्ठग्रहणसम्भवात् । किं च वक्ष्यमाणरीत्या वाक्यस्याप्पर्थवत्त्वे प्रातिपदिकसंज्ञापचेः । न च तत्प्रत्ययान्तमवेति वाच्यम् । मत्ययग्रहणे
1