SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०० বামুণ दमादिपदार्थान्तराम्बयेपि तदेव तथा । नन्ने सौमे वसानावग्निमादषीयातामिस्पत्र समुचितपोरधिकारो न स्यात् । तेन रूपेणानुपस्थितेरिति चेन्न । उक्तरीत्या आदधीयातानित्यनेन पश्चात्साहित्ये बुद्ध साहितयोरधिकारबोधसिद्धः । यस्कर्तव्य तदनया सहेस्यनेन सिद्धत्वाति नव्याः । एवमन्यत्रापि क. क्षणयोपपत्तौ न शक्तिरित्याहुः । तानिराचष्टे । पङ्कजपदवदिति । पङ्कजशब्दस्थडेप्रत्ययस्यापि पनत्वरूपेण पने लक्षणयोपपत्तौ न रूढिः सिद्धयेदिति भावः । न च पङ्कजपदानियमेनोपस्थितेः प्रामाणिकानां शक्तिव्यवहाराच्च शक्तिरिति वाच्यम् । तुल्यत्वात् । कथमन्यथा निरूडलक्षणेति सङ्गच्छते । यतुः पङ्कनपदे न रूढिरिति दृष्टान्तासिदिमाहुः प्राभाकराः । तत्र स्थकारवत्सम्भवात् । तत्रापि रूट्यस्वीकारे रथकाराधिकरणहानिरिति ॥ ११ ॥ • ननु पङ्कनपदस्थले ऽवयंघममानतोपि बोधादवयवशक्तिम. विदुषोपि बोधाच न लक्षणया निर्वाहः । नचैवं चित्रगुरित्यादौ रंथकारादावपि प्रकारान्तरबलात्तथेत्यतः समाध्यन्तरमाह । बहनामिति । अथात्र वृत्तेधर्मा विशेषणलिङ्गसङ्ख्याद्ययोगादयः । तेषां वचनैः साधने गौरवम् । तदर्थ वचनारम्भे गौरवं, तस्मादेकार्थीभावः । अखण्डशक्तिरूप इत्यर्थः । अयं भावः । यदि लक्षणाभ्युषेयते तदा शोभनायां गङ्गायामित्यादौ लाक्षणिकेपि सङ्ख्यालिङ्गविशेषणान्वयवद्राजपुरुष इत्यत्र राज्ञः, चि. गुरित्यत्र चित्रे गवि च, उपकुम्भमित्यत्र कुम्भे, पाणिपादमित्यंत्र पाण्यादौ, औषगव इत्यत्रोपगोः, पक्तत्यत्र पाके, इत्येव. मादिषु शोभन इत्यादि विशेषणानां लिङ्गसङ्ख्याकारकाणां च यथायथमन्वयमसङ्गादिति । अथ सविशेषणानां चिर्न वृत्त
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy